2023-06-04 14:34:24 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
स्थानवर्तिनः कष्टानि तपांसि, महान्ति दानानि, दारुणानि
युद्धानि, भीमानि समुद्रलङ्घनादीनि च नराः समाचरन्ति' इति ।
निशम्यैतन्निय[^१]तिबलान्नु तत्पाटवान्नु स्वबुद्धिमान्द्यान्नु स्वनियममनदृत्य तस्यामसौ प्रासजत् । सा सुदूरं मूढात्मानं च तं प्रवहणेन नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैषीत् । अभूच्च घोषणा 'श्वः कामोत्सवः' इति । उत्तरेद्युः स्नातानुलिप्तमारचित [^२]मञ्जुमालमारब्धकामि [^३]जनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रे गतेऽपि तया विना दूयमानं तमृषिमृद्धिमता राजमार्गेणोत्सवसमाजं नीत्वा क्वचिदुपवनोद्देशे युवतिजनशतपरिवृतस्य [^३]राज्ञः संनिधौ स्मितमुखेन तेन 'भद्रे, भगवता सह निषीद' इत्यादिष्टा
पदचन्द्रिका ।
कृतेऽव्ययं तावत्तादर्थ्ये वर्तते द्वयम्' इति । विशिष्टस्थानवर्तिनः सत्तीर्थवासिनः । नरा मानवाः । निशम्य श्रुत्वा । नियतिर्दैवम् । तस्याः काममञ्जर्याः । पाटवं पटुत्वम् । मान्यं मन्दत्वम् । नुः सर्वत्र वितर्के । स्वनियमं मुनिसमयम् । असौ मरीचिस्तस्यां काममञ्जर्या प्रासजत् । प्रसक्तोऽभूदित्यर्थः । सेति । सा काममञ्जरी ।
मूढात्मानं मूर्खबुद्धिम् । तं मुनिम् । प्रवहणेन कर्णीरथेन । 'कर्णीरथः प्रवहणम्' इत्यमरः । उदारशोभयोत्कृष्टशोभया । राजवीथ्या राजमार्गेण । स्वभवनं स्वगृहम् ।
अभूच्चेति । घोषणा डिण्डिमः । 'डांगोरा' इति प्रसिद्धः । श्व आगामिनि दिवसे । उत्तरेद्युरित्युत्तरदिवसे । पूर्वं स्नातः पश्चादनुलिप्तस्तथा तम् । आरचिता धृता मञ्जुः मनोज्ञा माला येनेति तम् । मनोशं मञ्जुलम् । वृत्तं वर्तनम् । निवृत्तो
दूरापास्तः स्ववृत्तेखास्वाचरणेऽभिलाषो यस्य तम् । दूयमानं खिद्यमानम् । ऋद्धिमता समृद्धेन । उत्सवसमाजं क्रीडासभाम् । स्मितमुखेन । तेन राज्ञेत्यर्थः ।
भूषणा ।
यावत् । उदीरित इत्यत्राभिमानः सार्थक्यबुद्धिर्यत इत्यर्थः । तस्यैव कृते तदर्थम् । 'अर्थे कृतेऽव्ययं तावत्तादर्थ्ये वर्तते द्वयम्' इति कोशसारः । प्रासजत् प्रकर्षेण सक्तोऽभवत् । सुदूरमत्यन्तम् । 'सुदूरं दीर्घमायतम्' इत्यमरः । प्रवहणं कर्णीरथः ।
लघुदीपिका ।
नम्' इति वैजयन्ती । तस्यैव कृते तदर्थम् । 'अर्थे कृतेऽव्ययं तावत्तादर्थ्ये वर्तते द्वयम्' । प्रासजत् प्रकर्षेण सक्तोऽभूत् । 'कर्णीरथः प्रवहणमर्थयानं सयन्त्रकम्
[^१]G. 'निमित्तबलान्नु'.
[^२]G. 'मुण्डमालम्'.
[^३]G. 'जनवृत्तनिवृत्त. '
[^४]G. 'अनिधौ समासदत्तत्र'.
युद्धानि, भीमानि समुद्रलङ्घनादीनि च नराः समाचरन्ति' इति ।
निशम्यैतन्निय[^१]तिबलान्नु तत्पाटवान्नु स्वबुद्धिमान्द्यान्नु स्वनियममनदृत्य तस्यामसौ प्रासजत् । सा सुदूरं मूढात्मानं च तं प्रवहणेन नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैषीत् । अभूच्च घोषणा 'श्वः कामोत्सवः' इति । उत्तरेद्युः स्नातानुलिप्तमारचित [^२]मञ्जुमालमारब्धकामि [^३]जनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रे गतेऽपि तया विना दूयमानं तमृषिमृद्धिमता राजमार्गेणोत्सवसमाजं नीत्वा क्वचिदुपवनोद्देशे युवतिजनशतपरिवृतस्य [^३]राज्ञः संनिधौ स्मितमुखेन तेन 'भद्रे, भगवता सह निषीद' इत्यादिष्टा
पदचन्द्रिका ।
कृतेऽव्ययं तावत्तादर्थ्ये वर्तते द्वयम्' इति । विशिष्टस्थानवर्तिनः सत्तीर्थवासिनः । नरा मानवाः । निशम्य श्रुत्वा । नियतिर्दैवम् । तस्याः काममञ्जर्याः । पाटवं पटुत्वम् । मान्यं मन्दत्वम् । नुः सर्वत्र वितर्के । स्वनियमं मुनिसमयम् । असौ मरीचिस्तस्यां काममञ्जर्या प्रासजत् । प्रसक्तोऽभूदित्यर्थः । सेति । सा काममञ्जरी ।
मूढात्मानं मूर्खबुद्धिम् । तं मुनिम् । प्रवहणेन कर्णीरथेन । 'कर्णीरथः प्रवहणम्' इत्यमरः । उदारशोभयोत्कृष्टशोभया । राजवीथ्या राजमार्गेण । स्वभवनं स्वगृहम् ।
अभूच्चेति । घोषणा डिण्डिमः । 'डांगोरा' इति प्रसिद्धः । श्व आगामिनि दिवसे । उत्तरेद्युरित्युत्तरदिवसे । पूर्वं स्नातः पश्चादनुलिप्तस्तथा तम् । आरचिता धृता मञ्जुः मनोज्ञा माला येनेति तम् । मनोशं मञ्जुलम् । वृत्तं वर्तनम् । निवृत्तो
दूरापास्तः स्ववृत्ते