2023-06-04 14:04:10 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
सीव न जातु रजोऽनुषज्यते । तन्मन्ये नार्थकामौ धर्मस्य शत-
तमीमपि कलां स्पृशतः' इति । श्रुत्वैतदृषिरुदीर्णरागवृत्तिरभ्य-
धात् - 'अयि विलासिनि, साधु पश्यसि । न धर्मस्तत्त्वदर्शिनां
विषयोपभोगेनोपरुध्यत इति । किंतु जन्मनः प्रभृत्यर्थकामवार्ता-
नभिज्ञा वयम् । ज्ञेयौ चेमौ किंरूपौ किंपरिवारौ किंफलौ च'
इति । सा त्ववादीत् - 'अर्थस्तावदर्जनवर्धनरक्षणात्मकः, कृषि-
पाशुपाल्यवाणिज्यसंधिविग्रहादिपरिवारः, तीर्थप्रतिपादनफलश्च ।
कामस्तु विष[^१]यातिसक्तचेतसोः स्त्रीपुंसयोर्निरतिशयसुखस्पर्श-
विशेषः । परिवारस्त्वस्य यावदिह रम्य[^२]मुज्ज्वलं च । फलं पुनः
परमाह्लादनम्, परस्परविमर्दजन्म, स्मर्यमाणमधुरम्, उदीरिता-
भिमानमनुत्तमम्, सुखमपरोक्षं स्वसंवेद्यमेव । तस्यैव कृते विशिष्ट-
पदचन्द्रिका ।
श्रुत्वेति । उदीर्णा वृद्धिं गता रागवृत्तिर्यस्येति । रागवृत्तिरिच्छावृत्तिः । अयि विलासिनीति सानुरक्तिः । तत्त्वदर्शिनां तत्त्वसाक्षात्कारिणाम् । जन्मनः प्रभृति । आ जन्मेत्यर्थः । अनभिज्ञा अज्ञातारः । नोपरुध्यते नोपक्षीयते । धर्मो विषयोपभोगेन स्त्र्याद्युपभोगेन । ज्ञेयौ चेमावर्थकामौ ज्ञातव्याविति । रूपं स्वरूपम् । परिवारः परिकरः । सा त्ववादीदिति । अर्जनं संपादनम् । वर्धनं वृद्धिकालादिभिः । रक्षणं पालनम् । कृषिः कर्षणकर्म । पाशुपाल्यं पशुपालनम् । तीर्येषु सत्पात्रेषु । 'विश्राणनंविश्राणनं वितरणं स्पर्शनं प्रतिपादनम्' इत्यमरः । कामस्तु 'स्त्रीपुंसयोरिति । 'अचतुर - (५१४/७७) इत्यादिना निपातनाददन्तता । निरतिशयः । श्रेष्ठ इत्यर्थः । यावदिति साकल्ये । परस्परविमर्दजन्मान्योन्यालिङ्गनचुम्बनादिजन्मा ।
अपरोक्षं प्रत्यक्षम् । तस्यैव सुखस्यैव निमित्तम् । कृत इत्यव्ययं तादर्थ्ये । 'अर्थे
भूषणा ।
शत्रुलुण्ठनं विग्रहः । परिवारः परिकरः । तीर्थप्रतिपादनं सत्पात्रदानम् । 'विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्' इत्यमरः । विषयाभिव्यक्तचेतसोर्विषयोऽभिव्यक्तो विषयीभूतो यत्र तथाविधं चेतो ययोः । विषयमात्रविषयकचेतसोरिति यावत् । रम्यमुज्ज्वलं वस्तूद्दीपनविभावः स्मर्यमाणं सन्मधुरम् । यदीयं स्मरणमपि सुखजनकमिति
लघुदीपिका ।
नम् इत्यजयः । आवहन्ति कुर्वन्ति । परिवारौ । 'परिवारः परिकरः' ।'तीर्थप्रतिपादनं सत्पात्रदानम् । 'विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ।प्रदा-
[^१]G. 'अभिव्यक्त'.
[^२]G. 'उज्जवलं वस्तु'
तमीमपि कलां स्पृशतः' इति । श्रुत्वैतदृषिरुदीर्णरागवृत्तिरभ्य-
धात् - 'अयि विलासिनि, साधु पश्यसि । न धर्मस्तत्त्वदर्शिनां
विषयोपभोगेनोपरुध्यत इति । किंतु जन्मनः प्रभृत्यर्थकामवार्ता-
नभिज्ञा वयम् । ज्ञेयौ चेमौ किंरूपौ किंपरिवारौ किंफलौ च'
इति । सा त्ववादीत् - 'अर्थस्तावदर्जनवर्धनरक्षणात्मकः, कृषि-
पाशुपाल्यवाणिज्यसंधिविग्रहादिपरिवारः, तीर्थप्रतिपादनफलश्च ।
कामस्तु विष[^१]यातिसक्तचेतसोः स्त्रीपुंसयोर्निरतिशयसुखस्पर्श-
विशेषः । परिवारस्त्वस्य यावदिह रम्य[^२]मुज्ज्वलं च । फलं पुनः
परमाह्लादनम्, परस्परविमर्दजन्म, स्मर्यमाणमधुरम्, उदीरिता-
भिमानमनुत्तमम्, सुखमपरोक्षं स्वसंवेद्यमेव । तस्यैव कृते विशिष्ट-
पदचन्द्रिका ।
श्रुत्वेति । उदीर्णा वृद्धिं गता रागवृत्तिर्यस्येति । रागवृत्तिरिच्छावृत्तिः । अयि विलासिनीति सानुरक्तिः । तत्त्वदर्शिनां तत्त्वसाक्षात्कारिणाम् । जन्मनः प्रभृति । आ जन्मेत्यर्थः । अनभिज्ञा अज्ञातारः । नोपरुध्यते नोपक्षीयते । धर्मो विषयोपभोगेन स्त्र्याद्युपभोगेन । ज्ञेयौ चेमावर्थकामौ ज्ञातव्याविति । रूपं स्वरूपम् । परिवारः परिकरः । सा त्ववादीदिति । अर्जनं संपादनम् । वर्धनं वृद्धिकालादिभिः । रक्षणं पालनम् । कृषिः कर्षणकर्म । पाशुपाल्यं पशुपालनम् । तीर्येषु सत्पात्रेषु । 'विश्राणनं