This page has not been fully proofread.

८८
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
सीव न जातु रजोऽनुषज्यते । तन्मन्ये नार्थकामौ धर्मस्य शत-
तमीमपि कलां स्पृशतः' इति । श्रुत्वैतहषिरुदीर्णरागवृत्तिरभ्य-
धात् - 'अयि विलासिनि, साधु पश्यसि । न धर्मस्तत्त्वदर्शिनां
विषयोपभोगेनोपरुध्यत इति । किंतु जन्मनः प्रभृत्यर्थकामवार्ता-
नभिज्ञा वयम् । ज्ञेयौ चेमौ किंरूपो किंपरिवारौ किंफलौ च'
इति । सा त्ववादीत् - 'अर्थस्तावदर्जनवर्धनरक्षणात्मकः, कृषि-
पाशुपाल्यवाणिज्यसंधिविग्रहादिपरिवारः, तीर्थप्रतिपादनफलश्च ।
कामस्तु विषैयातिसक्तचेतसोः
स्त्रीपुंसयोर्निरतिशयसुखस्पर्श-
विशेषः । परिवारस्त्वस्य यावदिह रम्येमुज्वलं च । फलं पुनः
परमाह्लादनम्, परस्परविमर्दजन्म, स्मर्यमाणमधुरम्, उदीरिता-
भिमानमनुत्तमम्, सुखमपरोक्षं स्वसंवेद्यमेव । तस्यैव कृते विशिष्ट-
पदचन्द्रिका ।
 

 
श्रुत्वेति । उदीर्णा वृद्धिं गता रागवृत्तिर्यस्येति । रागवृत्तिरिच्छावृत्तिः । अयि
विलासिनीति सानुरक्तिः । तत्त्वदर्शिनां तत्त्वसाक्षात्कारिणाम् । जन्मनः प्रभृति ।
आ जन्मेत्यर्थः । अनभिज्ञा अज्ञातारः । नोपरुण्यते नोपक्षीयते । धर्मो विषयो-
पभोगेन रूयाद्युपभोगेन । ज्ञेयौ चेमावर्थकामौ ज्ञातव्याविति । रूपं स्वरूपम् ।
परिवारः परिकरः । सा त्ववादीदिति । अर्जनं संपादनम् । वर्धनं वृद्धि
कालादिभिः । रक्षणं पालनम् । कृषिः कर्षणकर्म । पाशुपाल्यं पशुपालनम् ।
तीर्येषु सत्पात्रेषु । 'विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्' इत्यमरः । कामस्तु
'स्त्रीपुंसयोरिति । 'अचतुर - (५१४/७७) इत्यादिना निपातनाददन्तता । निरतिशयः ।
श्रेष्ठ इत्यर्थः । यावदिति साकल्ये । परस्परविमर्दजन्मान्योन्यालिङ्गनचुम्बनादिजन्मा ।
अपरोक्षं प्रत्यक्षम् । तस्यैव सुखस्यैव निमित्तम् । कृत इत्यव्ययं तादर्थ्ये । 'अर्थ
 
भूषणा ।
 
शत्रुलुण्ठनं विग्रहः । परिवारः परिकरः । तीर्थप्रतिपादनं सत्पात्रदानम् । 'विश्राणनं
वितरणं स्पर्शनं प्रतिपादनम्' इत्यमरः । विषयाभिव्यक्तचेतसोर्विषयोऽभिव्यक्तो विष-
यीभूतो यत्र तथाविधं चेतो ययोः । विषयमात्रविषयकचेतसोरिति यावत् । रम्य-
मुज्ज्वलं वस्तूद्दीपनविभावः स्मर्यमाणं सन्मधुरम् । यदीयं स्मरणमपि सुखजनकमिति
लघुदीपिका ।
 
नम् इत्यजयः । आवहन्ति कुर्वन्ति । परिवारौ । 'परिवारः परिकरः' ।
'तीर्थप्रतिपादनं सत्पात्रदानम् । 'विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ।प्रदा-
पाठा०-१ 'अभिव्यक्त'. २ 'उज्जवलं वस्तु'