This page has not been fully proofread.


 
रा. खाडिलकरोपाह्न - आपाशास्त्रिभिर्दत्तं पुस्तकं च । गोविन्दशास्त्रिणां
मूलपुस्तकं तु बुल्लर महाशयैनी॑तमिति तैरेवोक्तम् ।
 
दशकुमारचरितम् – पूर्वोक्तसर्वाण्यपि मुद्रितपुस्तकानि, वे. रा.
रा. निरन्तरोपाहगोविन्दशास्त्रिभिर्दत्तमेकं लिखितपुस्तकं, "बाँबे ब्रँच्
ऑफ् धी रॉयल् सोसायटी" इत्यस्याः पुस्तकालये निहितं डॉ. भाऊ
दाजीत्येतेषां पुस्तकालयीयं पुस्तकद्वयं च । अनयोर्द्वयोरेकं समग्रमन्य-
चतुर्थोच्छ्वासप्रारम्भावधि च विद्यते ।
 
उत्तरपीठिका – रा. रा. निरन्तरोपाहगोविन्दशास्त्रिणां लिखितपु-
स्तकप्रतिकृतिरूपं रा. रा. खाडिलकरोपाह्न - आपाशास्त्रिभिर्दत्तमेकं लिखि-
तपुस्तकम् । गोविन्दशास्त्रिणां मूलपुस्तकं तु बुल्लरमहाशयैन
तमिति
तदुक्त्यैवावगम्यते । इदं च प्रकरणमद्यावधि कुत्रापि न मुद्रितमा-
सीत् । अद्यावध्यपूर्णा दशकुमारकथाऽस्मिन्समग्रोपलभ्यते । उपल-
ब्धानां पुस्तकानामशुद्धिभूयिष्ठतया शुद्धान्यपुस्तकलब्धये बहुशः
कृतप्रयतेऽपि नैवोपलब्धम् । उत्तरपीठिकायाः शुद्धमन्यत्पुस्तकं यद्यु-
पलब्धमभविष्यत्तदेदं परिशुद्धमभविष्यत् । येषां च विदुषां सविधे-
ऽन्यल्लिखितपुस्तकमास्ते ते कृपयाऽस्माकं प्रेषयेयुश्चेदग्रिमावृत्तिसंस्क-
रणे साहाय्यं भवेदित्यलम् । एतत्सर्वं मूलमधिकृत्य निवेदितमिदानीं
टीकामधिकृत्योपलब्धान्युपकरणानि प्रदर्श्यन्ते --
 
पददीपिका – इयं च टीका केवलं मूलपीठिकायाः सती पद-
चन्द्रिकायाः शैल्या केनचिदर्वाचीनेन निर्मितेति प्रतिभाति । इयं
त्वस्माभिः पूर्वपीठिकाया अघो निवेशिता ।
 
पदचन्द्रिका – अस्याः पुस्तकमेकं रा. निरन्तरोपाहगोविन्द -
शास्त्रिणां संग्रह उपलब्धम् । अन्यच्च गोविन्दशास्त्रिणः पुस्तकप्रतिकृति-
रूपं रा. खाडिलकरोपाह- आपाशास्त्रिभिर्दत्तम् । तृतीयं तावत् एल्फि-
न्स्टन्विश्वविद्यालयस्य पुस्तकालयाद सन्मित्रैः रा. श्रीधरभाण्डारकर -
विपश्चिद्धिः प्रेषितम् । इयं च टीकास्माभिर्दशकुमारचरितस्याघो
निवेशिता ।