2023-02-24 17:17:35 by ambuda-bot
This page has not been fully proofread.
५४ ]
महाकविबाण-विरचितं चण्डीशतकम्
। पद्याङ्क १५-१६ व्याख्या
सं० व्या० - १५० सा देवी भगवतो वो युष्माकं श्रिये सम्पदे अस्तु भवतु, यया
देव्या अरी महिषाख्ये पिष्टे चूर्णिते सति जया तदीयप्रतिहारी जहास हसितवती :
द्युजनं स्वर्लोकं इन्द्राद्यं, किंभूतं नष्टं महिषभयेन पलायित, कथं जहास इत्येवं तदुच्यते
'जाताकि ते हरेरित्या' दि, स्वस्वामिनी विजयगविता जया हरिशब्दं छलन्ती इन्द्र-
मुपेन्द्रं च तावत् सामान्योक्त्या द्युजनमेवं पृच्छती जहास, किं वा जाता अथवाऽभूत्
हरेरिन्द्रस्य विष्णोश्च भीर्भयं यतोऽवश्यं निश्चितं महिषतः सकाशात हरीणां भीर्भयं
भवति, अत्र पक्षे, हरयोऽवा उक्ताः अद्य अधुना इन्दोः चन्द्रस्य द्वौ कलङ्की एक-
स्तावल्लोके प्रसिद्ध एवापरस्तु पलायनकृत इति श्रम्पापतिर्वरुणश्चन्द्र नष्टं
धैर्यं त्यजति कातरो भवति कातरस्येदमपि स्वरूपं भवतीति भावः, छल-
पक्षे तु अपां पतिः समुद्रः स तु चन्द्रदर्शनात् सुतोत्कण्ठतया धैर्यं त्यजति चञ्चलो
भवति वेलाभिमुखं प्रसरतीति, एतदधुनाश्चर्यमिदं विचित्रं यत्ते वायो ! कम्प्यस्त्व-
यात्यः, वायो ! पवन ! तव भवतां अन्य: कम्प्यः कम्पनीयः तत् कि स्वयं कम्पसे
इत्यभिप्राय:, यम ! त्वं प्रात्मयुग्यं वाहनं महिषान्नय श्रयमत्र भावः घृष्टो महिषो
अपरं महिषं दृष्ट्वा धावतीति ॥ १५॥
,
शूलप्रोतादुपान्तप्लुतमहि' महिषादुत्पतन्त्या स्रवन्त्या
वर्त्मन्यारज्यमाने सपदि मखभुजां जातसन्ध्या विमोहः ।
नृत्यन् हासेन मत्वा विजयमहमहं मानयामीतिवादी
यामाश्लिष्य प्रनृत्तः पुनरपि पुरभित् पार्व्वती पातु सा वः ॥१६॥
कुं०व० सा पार्व्वतो वो युष्मान् पातु रक्षतु । सा का, पुरभिन्महेश्वरः पुरं
भिनत्तीतिपुरभित्, यां आश्लिष्य पुनरपि प्रवृत्तः प्रकृष्टनृत्तो बभूव प्रकर्षेण
नत्तितुं प्रवृत्त इति यावत् । किंभूतः जातसन्ध्या विमोहः जातः सन्ध्या विमोहो यस्य
स तथा ईश्वर: खलु सन्ध्यायां नृत्यतीति सन्ध्या भ्रमान्नृत्यन्; ननु जगतां सृष्टि-
स्थितिप्रलय हेतोभंगवतः सर्वज्ञस्य कथं मोहः, तदुच्यते-
देवा अपि न जानन्ति, यावत्र ध्यानमाश्रिताः ।
.
१ का० शूलप्रोतादुपात्तक्षतमहि ।
२ ज० प्रवृत्तः ।
.
• तत्वदृष्टि समालम्ब्य, पश्यप्यन्तर्गतेन्द्रियाः ॥ इति
क्व सति, मखभुजां देवानां वर्त्मन्याकाशे आरज्यमाने सति अरुणी क्रियमाणे
सति, कया स्रवन्त्या रुधिरनद्या, किंभूतया महिषात् उत्पतन्त्या । किं
भूतान्महिषात् शूलप्रोतात् शूले प्रोतः तस्मात् कथं यथा भवति । उपान्तप्लुत-