This page has not been fully proofread.

"
 
पद्याङ्क १५ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेत
 
इदानीं पुनरपि वाक्छलेनाह
 
जाता किं ते हरे भीर्भवति महिषतो भीरवश्यं हरीणा-
..
 
मद्यन्दो द्वौ कलङ्कौ त्यजसि जल निधे' धैर्यमालोक्य चन्द्रम् ।
वायो कम्प्यस्त्वयाऽन्यो यम नय महिषादात्मयुग्यं यया रौ
पिष्टे नष्ट जहास द्यु जनमिति जया साऽस्तु चण्डी श्रिये वः ॥१५॥
 
.
 
कु ० वृ० - सा चण्डी वो युष्माकं श्रियेऽस्तु भवतु यया चण्डयाsरो पिष्टे
सति जया देवीसखी द्यंजनं देवलोकवासिनं इन्द्राद्यं इति जहास हासं चकार ।
किंविशिष्ट जनं नष्ट पलायितं इतीति कि, हे हरे ! इन्द्र ! ते तव भीर्भयं कि
जाता मत्सख्यां सत्यां (21) कथं महिषादबिभः, इति पृष्ट्वा हरिशब्दच्छलेन स्वय-
मेवाऽऽहं अथ च स्वभावोऽयं त्वया नामसदृशमाचरितं, यतो हरीणां अश्वानां महिषात्
भयं भवत्येव । एवं हरि उक्त्वा इन्दु , हे इन्दो ! अद्य तव द्वो कलङ्की जाती,
एकेनापि कलङ्कनं त्वां वदन्ति अलं अपरेण पलायनभयेनेति द्वितीयस्त्वयि
क्वाऽवकाशं प्राप्स्यतीति, इति इन्दुमुपहस्य वरुणमाह, हे जलनिधे ! त्वं चन्द्रं
ग्रालोक्य धैर्यं त्यजसि त्त्वं अपि धैर्य त्यजन् दृश्यसे तर्हि कि पलायितं, चन्द्र
दृष्ट्वा त्यजसि, यस्य खलु पुत्रः पलाय्य गच्छति स धैर्यं त्यजत्येव; अथवा,
इन्दु-दर्शनात् समुद्रो मर्यादां मुञ्चतीति, स्वभावोऽयम् । अथ जलनिधिशब्देन -
लक्षणया वरुण उच्यते, जलनिधिशब्दः स्वार्थो बाधितशक्तिः सन्, वरुणस्य
युद्धेऽधिकारात्, तत्सिद्धयर्थं जलनिधिशब्दः स्वार्थं वरुणे समयति ( ते ) । तत्र चन्द्रं
पलायितं दृष्ट्वा तद्गताऽनुगतिकत्वेन वरुणस्याऽपि भीरभूदित्यर्थः । अथवा,
जलनिधि: मूषसहायो भवति स शूरवृत्ति अपि त्यक्त्वा पलायते एवेति
भावः । इतो वायुमाह, हे वायो ! त्वयाऽन्यः कम्प्य: कम्पनीयः, परं कम्पयतीति
कम्पन इति निरुक्तः, ततः किं त्वं कम्पसे, प्रतिविपर्ययेन साधीयानिति । अथ वाति
 
:
 
3
 
१. ज० का० त्यजति पतिरपां ।
 
+
 
९. ज० का० नय यम ।..
 
१. ज० का० देवी
 
[ ५३
 
SM
 
.
 
"
 
गच्छतीति वायुत्वमेव युक्त अङ्गीकरोषि; इदानीं यममाह, हे यम ! महिषात्
श्रात्मयुग्यं नय प्रदेशान्तरं प्रापय इति प्रदेशान्तराऽऽध्याहारेण व्याख्यानं । अथ
हे यम ! इति प्रकार प्रश्लेषात् त्वं अन्यान् नियन्तु क्षमः साम्प्रतं श्रात्मयुग्यमपि
नियन्तु न शक्नोषि यतस्त्वं रणादपनीयसे ॥१५॥