2023-03-13 20:52:30 by manu_css
This page has been fully proofread once and needs a second look.
विनापि अप्रयत्नेनैव वा नाक्षिप्येव महिषस्यास्थ्नां भङ्गो व्यधायि । तु पुनः
अन्यच्च, क्रोधात् पादपद्मं नोद्धृतं अर्थान्महिषशिरसः, तु पुनः अमृतभुजां
देवानां अमृतं भुञ्जते इत्यमृतभुजः । अतः हृन्मध्यात् महदिति अनन्यनिरसनीयं
शल्यं महिषलक्षणं उद्धृतं, अयमर्थः । क्रोधात् महिषशिरसि न्यस्तं पादं अनुद्धृत्यैव
देवशल्यमुद्धृतं पादप्रहारमात्रेणैव देव्या[वा] निःशल्या बभूवुरित्यर्थः । अपरं च,
तत्सन्नूपुरं धीरतया अचलनत्त्वेन वाचालं सशिञ्जितं नाऽजनि न जनितं, नूपुर-
शब्दस्य महाकविप्रयोग(20a)त्त्वान्नपुंसकता न विचारणीया । तु पुनः महिषवधा-
नन्तरं जगत् जयं शंसत् अजनि, 'जय जये'तिघोषपरं जातं, नूपुरमजनीति विण्,
भावकर्म्मणोरिति कर्मणि विण्, जगदजनीति । दीपजनेत्यादिना कर्त्तरि विणिति
मन्तव्यम्; अयमभिसंधि: यावता नूपुरमपि सशब्दं नाभूत् तावदेव हतेऽरौ जगत्
स्तोत्रकृज्जातमित्यर्थः । कर्म्मणि विण् । पक्षे भवान्या तच्छिरसि तथा श्लक्ष्णतया
सलीलं पादो न्यधायि यावन्नूपुरोऽपि सशब्दो न जातः हेलयैवाऽरिर्हतः ; विनापि
कारणं कार्योत्पत्तिरिति विभावना । 'अक्लेशेन कार्यकरणं समाधिर्वा विशेषणैर्यत्सा-
कुतैरिति परिकरो' वा यथासंभवमलङ्कारयोजना । किं कुर्व्वन्त्या हरन्त्या मुष्णन्त्या
कान् असून् प्राणान्, कस्य सुरारे: महिषस्य, केन पार्ष्णेरंशेन पादतलपाश्चात्य-
भागेन, क्व समरभुवि सङ्ग्रामभूमौ । अत्र भ्रूभङ्गे वक्तव्ये यल्लतापदोपादानं
तस्यायमभिप्रायः, देवी महिषस्य प्राणान् मुष्णाति चोरयति, सहसैव हत
इति सोऽपि न जानाति स्मेति हरणं, यश्च यस्य कस्यचित् यत्किञ्चन मुष्णाति
स सर्वोऽपि आत्मप्राकट्यशङ्कया लतादेर्भङ्गं न करोति इति स्वभावः । अथ महिष-
स्याऽसवश्चापहृताः ततः कारणाभावे कार्याऽनुदयात् । लताभङ्गकारणप्राणवत्ताभा-
वात्, तत्कार्यभङ्गानुत्पत्तिः । अथवा, अयत्नेन महिषे हते शृङ्गारचेष्टा लीलादिसद्-
भावात् । भ्रूलतोपादानं अत्र पूर्वस्मिन् व्याख्याने भगवत्या माहात्म्यवर्णनमपरि-
पुष्टमिति भङ्ग्यन्तरेण व्याक्रियते, यया केवलं भ्रूलताया एव भङ्गो नाकारि किन्तु
अनास्थं यथा स्यात्तथा महिषस्याऽपि भङ्गः कृतः, किमुक्तं भवति, भ्रूभङ्गसम-
कालमेवाऽस्थ्नां भङ्गो जातः नास्थिभङ्गे प्रयत्नान्तरमभूदित्यर्थः । भ्रूभङ्गं दृष्ट्वा
एव महिषस्य देहो विशकलित इति । तु पुनः, यया क्रोधान्महिषवधार्थं केवलं
पादपद्मं नोद्धृतं महिषशिरसि न्यस्तो यावता चरणो नोद्दधारि किंतु अमृतभुजां
अन्तःशल्यमपि उद्धृतं, अमृतभुजामिति कोऽर्थः अमरणधर्मता; अनु च, 'दुराधर्षो
रिपुश्चेति शल्यम्', अनु च, महिषवधार्थं देव्या पादे उत्क्षिप्ते एव हतोऽस्मद्रिपुरिति
निःशल्या अभूवन् । अनु च, यया केवलं नूपुरमेव वाचालं नोऽजनि किं च जगदपि
जयं शंसद्यातं, चरणोत्क्षेपणसमये नूपुरे एव शब्दायिते जगत् 'जय जय देवि' इति
मङ्गलघोषपरमभूदित्यर्थः । अयं क्रमः, यः कञ्चन हन्तुं उपक्रमं करोति स पूर्वं