This page has been fully proofread once and needs a second look.

पादस्य कर्म्मणि प्रधानस्यैव फलभावत्वात् वामपादस्यैवोपचरणं युक्तिमिति दर्श-
यितुम् । अपि: पूर्वोक्तसमुच्चयार्थः, किंविशिष्टस्याऽस्य दलिताद्रीन्द्रसारद्विषः
अद्रीणामिन्द्रोऽद्रीन्द्रो हिमालयः तस्य सार इव सारो अस्य, उपमानसमासः, स चासौ
द्विट् च स तथा दलिताऽद्रीन्द्रसारद्विट् येन स तस्य एतदुक्तं भवति । येनाचलप्रायो
रिपुर्व्यापादितः तस्य विजयाकरतलस्पर्शः कियानिति । अथ च नाहं संवाहनोद्युक्ता
किन्तु कृताञ्जलिर्नतिं आतनोमीति विजयोदितमाशङ्क्याह--ज्ञानं तर्हि भक्तिपरत्त्वं
त्वमपि किं एतस्मात्त्रस्यसि, एवेति वितर्के, यतोऽद्य अमुना कदनेन त्रासेन सर्व्वः
सकलोऽपि लोकः एनं प्रणमति नमस्यति त्वं अपि तदन्तर्गतासीति नतियुक्तेति
उपहासार्थः। कदनेन त्रासेनेत्युभयत्र हेतौ तृतीया । कदनहेतुकं त्रासनिमित्तं नतिं
सर्व्वः करोतीति वाक्यार्थः । रसवद्रूपकव्याजोक्त्या विशेषोऽलङ्कारः ॥१२॥
 
सं० व्या०--१२. अम्बिकायाः गौर्याः पादः क्षतारि: वो युष्मान् अव्यात् रक्षतु,
क्षतो अरिर्येन इति विग्रहः, किंविशिष्टः रहसि एकान्ते अन्यं विनयप्रकारं अपश्यता
त्र्यम्बकेन त्रिनयेन चुम्बित:, किं कुर्वता विहसता प्रहसता एवं अमुना प्रकारेण किं
कुर्वत्ता इत्यर्थः, कथमिति तदुच्यते रक्ताक्ते इत्यादि, हे विजये ! सखि न विराजति
न शोभते अमुष्मिन् चरणे किम्भूते विजयिनि विजयशीले रक्ताक्ते रक्तेन अत्याक्ते
का न विराजति अलक्तकश्री: शोभा, हस्ताग्रेण सम्मर्द्दनं तदपि हासो हास्यं
अस्य ह्रियमाणे ऽऽऽऽऽऽऽ न दलिताद्रीन्द्रसारद्विषः दलितोऽद्रीन्द्रसार: द्विट्
महिषो येन विनयं साधयतीत्याह अमुना कदनेन महिषवधलक्षणेन कदनेन कृतेन
यस्त्रासश्चमत्कारः तेनैवाद्याधुना सर्वः प्रणमतीति ॥१२॥
 
इदानीं महिषे व्यापादिते स्वास्थ्यमिताया भगवत्याः शक्रादीनां प्राप्तकालायाः
स्तुतेः प्रस्तावं दर्शयन्नाह--
 
भङ्गो न भ्रूलतायास्तुलितबलतयाऽनास्थमस्नांाद तु चक्रे
न क्रोधात् पादपद्मं महदमृतभुजामुद्धृतं शल्यमन्तः ।
वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पार्ष्णे-
र्मुष्णन्त्याऽसून् सुरारे: समरभुवि यया पार्व्वती पातु सा वः ॥१३॥
 
कु०वृ०--सा पार्व्वती वो युष्मान् पातु । सा का यया भ्रूलताया भङ्गो न चक्रे
न कृतः नाकारि । भ्रूरेव लता भ्रूलता तस्याः, पुनः अस्थनां महिषकीकसानां भङ्गः
कृतः कथं यथा स्यात् तुलितबलतया परिच्छिन्नबलत्त्वेन अनास्थं अस्थारहितं
यथा स्यात्, अयत्नमिति यावत्, अनाक्षेपं वा संभावनारहितं वा । महिषास्थिभङ्गे
कस्यचिदपि संभावना एव मा भूत्, इति एतदुक्तं भवति, कोपचिह्नं भ्रूभङ्गं