2023-02-24 17:17:35 by ambuda-bot
This page has not been fully proofread.
४८ ]
महाकवित्राण-विरचितं चण्डीशतकम्
[ पद्या १२ व्याख्या
युवतिचरणजा: युवतिचरणे जाता: शत्रुं महिपं विनाशं नयाम इति । श्रय पञ्चैव
युवतिचरणजा इत्युत्पन्नाभिमानेन नखानामभिमानो हरिणा सह व्यतिरेकश्च प्रति-
पादितः, श्रत एव हसित इव हरिरित्युक्तम् ॥११॥
इतो महिषे व्यापादिते भगवत्याः क्रीडावर्णनं प्रस्तौति -
रक्ताक्तोऽलक्तकश्रीर्विजयिनि विजये नो विराजत्यमुष्मिन्
हासो हस्ताग्रसंवाहनमपि दलिताद्रीन्द्रसार द्विषोऽस्य ।
त्रासेनैवाद्य सर्वः प्रणमति कदनेनामुनेति क्षतारिः
पादोऽव्याच्चुम्बितो वो रहसि विहसता त्र्यम्बकेणाऽम्बिकायाः ॥१२॥
कुं. वृ - इदानीं सर्व्वातिशायिवीर्या व्यापादितशत्रुं भ ग )वतो विपक्षक्षेपाविभू तरौद्र
रसोपशमनेन शृंगारं आविर्भावयितुं श्रांतसंवाहनादिलोकप्रचाराचरणार्थ च अल-
चकादिना प्रसाधनां कुर्व्वाणां विजयां सखों प्रति उक्ति-व्याजेनाह, रक्तात इति ।
अम्बिकायाः पादश्चरणो वो युष्मान् श्रव्यात् रक्षतु । कथंभूतः पादः, रहसि एकांते
इति विहसता विशिष्टं हास्यं कुर्व्वता, त्र्यम्बकेन त्रिनेत्रेण त्रीणि अम्बकानि यस्
स तेन प्रसांघनं कुर्व्वन्तों विजयां इति वक्ष्यमाणं उक्त्वा चुम्बितः मुखेनाश्लिष्टः,
चुम्बित इति ग्राम्यवचनेन क्लिष्टकम्मत्तीर्णाया भगवत्या विषये परमेश्वरस्यौत्सुक्यं
दर्शयति । अन्यथा एषां प्रतीयमानतैव रसोत्कर्षं पुष्णाति, न पुनः साक्षादुपादानं,
त्र्यंबक इति त्यादरेण नेत्रद्वयासाध्यत्वेन त्रिभिरपि नेत्रदेवों विलोक्य चुंबितेति
त्र्यंम्बकशब्दं प्रयुञ्जानस्य भावः । कथंभूतः पादः, क्षतारि: व्यापादित रिपुः तदेव
वक्ष्यमाणमाह, हे विजये । प्रियसखि ! रक्त नाक्तो रक्ताक्तः (तस्मित), महिष-
रुधिराणे प्रमुष्मिन् लक्तकश्री र्यावकशोभा नो विराजति । अलवतकेत रचिता
श्रीः अलक्तकश्रीः अलक्तकस्तिष्ठतु यतोऽयं रक्ताक्तः, अलवतक: सामान्य स्त्रीषु
शोभते अमुष्मिन् चरणे रक्तेनैव शोभा इदमेव रक्तं जगच्छोकापहारि वा
श्लेषे रलयो भेद इति । अयं रक्त कस्तिष्ठतु, चरणस्तु रक्ताक्तो विद्यते, अरक्तक-
'रक्तयो: सहानवस्थाना (19b) द्विरोध: । पुनः किविशिष्टे विजयिनि जयशीले,
यतो हि विजयिनि जयश्रीः स्वभावतो रक्ता विद्यते अतोऽलं पुनरुक्त्या । अथ
यस्मिन् एकस्या अयुतसिद्धोऽनुरागः तत्रानुरक्तको ननु रागवान् कथं संयुज्य[ते]
इति भावः । श्रथ स्त्रियां अनुरक्तस्य न पुंसां संयोगः सामंजस्यमावहति । अथ च
नाहमलक्तकं ददामि किंतु श्रायाः स्वामिन्याः हस्ताग्रसंवाहनं करोमि इति
विजयोतिमाशंत्र्याह हे विजये। श्रस्य वामचरणस्य हस्ताग्रं संवाहनमपि हासः,
मित्र स्थायी एव उद्रितः सन् रमतां इतः इति रसवदलंकारता अस्येत्येकवचनं