2023-03-13 20:50:56 by manu_css
This page has been fully proofread once and needs a second look.
र्भवतीति । तथा च पाणिनिराचार्यः 'अपवर्गे तृतीया' अपवर्गे अवसाने तृतीयैव
प्राप्नोति । इदमेव सूत्रं श्रीहर्षमिश्रैरन्यथा व्याकृतम्, 'उभयी प्रकृतिः का मे
सज्जेदिति मुनेर्मनः'। 'अपवर्गे तृतीये'ति भणतः पाणिनेरपि एवं या काचन तृतीया
तैर्दृष्टा सा भवतु, वयं तु प्रकृतमेवाऽनुसरामः । केषां ज्योत्स्नयेत्यपेक्षायां विशेषण-
द्वारेणाह--स्वांशुमय्या स्वकीयाश्च तेंऽशवश्च स्वांशवः तन्मयी तया स्वांशुमय्या,
अत्र प्राचुर्ये मयट्, अंशुप्राचुर्यवत्या नखज्योत्स्नयेत्यर्थ, अचेतनानां नखानां
हासासंभवात् । हतमहिषरुधिरक्षालनोत्तेजनोज्वलीभूतनखकिरणव्याजेन हास-
साधर्म्याच्चेतनधर्म्म उपचर्यते । कथम्भूतैर्नखचन्द्रकान्तैः, इति वक्ष्यमाणप्रकारेण
उत्पन्नाभिमानैः उत्पन्नोऽभिमानो गर्व्वो येषां ते तथा तैः । इतीति किं, सव्या-
जैणराज: एणानां राजा एणराजः, व्याजेन एणराजो व्याजैणराजः कपटनृसिंहः ।
अत्र व्याजैणराज इति शब्दमहिम्ना व्याजसिंह एव प्रतीयते, अर्थाच्च नृसिंहो
जायते । पाणिजैरिति शब्दसन्निधेश्च शब्दार्थस्यापरिच्छेदे सान्निध्यादीनां विशेष-
स्मृतिहेतुत्वाऽभ्युपगमात् नृसिंह इति व्याख्यायते । अथ जनो प्रादुर्भावे 'वेजननप्रसव-
विकारोत्पत्तिषु ड-प्रत्ययांतः । विशिष्टज्ञानवान् आ सामस्त्येन जायते इति [19a]
व्याजो मनुष्यः, अज क्षेपणे । वैः कैतवे विशिष्टं आ सामस्त्येन जानाति । अथ
भक्तानां दुरितानि क्षिपतीति व्याजो नरः । नरश्चासौ सिंहश्च व्याजसिंहः, विः
कपटार्थं वक्तीति कपटनृसिंह इति शब्द: संपद्यते । अतः स व्याजैणराजो माया-
नरसिंहः । प्रागित्याद्यन्वयः प्राक् पूर्व्वं सुरारे: सुराणां अरिः सुरारि: तस्य हिरण्य-
कशिपोर्वक्षो हृदयं दशभि: पाणिजै: पाणेर्जाता: पाणिजा: अभिनत् विदारयामास
अत्रायमभिसन्धिः । स इति परीक्षार्थसूचकतदो दर्शनात् नृसिंहेन दैत्यो व्यापादितः
स्मर्यते परं न दृश्यते । तु पुनः वयं एते साम्प्रतमेव रिपुमस्तं नयामः । किं-
विशिष्टा वयं, युवतिचरणजाः, अत्रापि च ते पुंपाणिजाः, तत्र पुंनार्योः पाणि-
पादयोश्च सिंहशशकयोश्च बले विशेषो गर्वकारणं, तत्रापि च ते दश वयं तु
पञ्चैव । एव शब्दो द्वितीयचरणनखव्यावृत्त्यर्थः वामपादेनैव हननात्, इति त्रिभि-
र्हेतुभिरुत्पन्नाभिमानैरिति वाक्यार्थः । अत्र उपमारूपकश्लेषाऽलङ्काराः ॥ ११ ॥
सं.व्या.--११. शिवा गौरी वो युष्माकं शान्त्यै शान्तये अस्तु भवतु, यस्याः पादे
अधिकरणभूते नखैर्हरिविष्णुः हसित इव, कया ज्योत्स्नया किंभूतया स्वांशुमय्या
स्वांशवः कृता यासां तथा, क्व सति हतारौ हतश्चासौ अरिश्च स हतारिः तस्मिन् हतारौ
व्यापादितमहिषसंज्ञशत्रौ, किमिव स्वैर्नखैरिति एवमुत्पन्नाभिमानैरिति वक्षो व्याजैण-
राज इत्यादि, व्याजैणराजशब्देन ना मृगराजो अभिनत् भिन्नवान्, वक्षः उरः
सुरारे: हिरण्यकशिपोः, प्राक् पूर्वं दशभिः पाणिजैः एतेः वयं पुनः पदैव[पञ्चैव]