2023-03-13 20:49:53 by manu_css
This page has been fully proofread once and needs a second look.
पतनापातपीतासुरासीत् धैर्येणामुक्तं लीलायाः समुचितः योग्यं यदात्मनः पतनं
पातस्तस्यापाते आरम्भे एव पीता असवो येन छलेन महिषतनुर्यस्येति विग्रहः,
देवीपक्षे वामो दक्षिणेतर उच्यत इति ॥१०॥
साम्प्रतं देवीचिकीर्षितमन्तरेण नखानामेव तद्वधकर्तृत्वमुपपादयति--
वक्षो व्याजैणराजः स दशभिरभिनत् पाणिजैः प्राक् सुरारेः
पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु ।
इत्युत्पन्नाभिमानैर्नखशशिमणिभिर्ज्योत्स्नया[^१] स्वांशुमय्या
यस्याः पादे हतारौ हसित इव हरिः सास्तु शान्त्यै शिवा वः[^२] ॥११॥
कुं०वृ०--सा शिवा व शांत्यै सर्वोपद्रवना(18a)शाय भूयात् । सा का, यस्याः
नखशशिमणिभिर्हरिः श्रीनृसिंहो हसित इव । यद्यपि 'हसितविडंबितवर्जितादयः
शब्दा: कविसमये उपमावाचकाः' इति कृत्वा हसित-ग्रहणेनैव उपमायां सिद्धायां
इव-ग्रहणं प्रत्युत उपमेयस्यैवाधिक्यद्योतनार्थं कविना पृथक् कृतं, इति अस्ति
स्थितिः । अप्रसिद्धमुपमेयं प्रसिद्धमुपमानं अतु तद्विपर्ययः । अथवाऽव्यया-
नामनेकार्थत्वात् इव-शब्द एवकारार्थः, हसित एव न तत्सदृशो बभूवेत्यर्थः, इति
पौनरुक्त्यपरिहारः । क्व सति, पादेऽर्थात् देव्याश्चरणे हतारौ सति, हतो व्यापा-
दितोऽरिर्येन स तथा । शशिनो मणयः शशिमणयः चंद्रकांताः नखा: शशिमणय इव
नखशशिमणयः, उपमितं व्याघ्राद्यैः सामान्यप्रयोगे इति समासः, तैः नखशशि-
मणिभिः । अत्र यद्यपि लक्षणमस्तीत्येतावतैव लक्षणानुगतः प्रयोगो रसभंगे न
कर्त्तव्यः, काव्यस्य रसात्मकत्वात्, रसस्य च शब्दार्थौचित्येनैव प्रयोगपरिपोष-
दर्शनात् । ‘प्रसिद्धौचित्यबंधस्तु रसस्यौपनिषत् परे’ति च वचनात् । नखानां च
प्राधान्यं तत्त्वेन च विधीयमानत्वं; अत्र च यथा 'सूर्याचन्द्रमसौ यस्य मातामह-
पितामहौ' तथा नखान् अनूद्य शशिमणित्वं विधीयते । विभक्त्यन्वयव्यतिरेकाभि-
धायिनी हि विशेषणानां विधेयतावगतिः तत एव च एषां विशेष्ये प्रमाणांतरसिद्धो-
त्कर्षापकर्षाऽभिधायिनां शाब्दे गुणभावेऽप्यार्थं प्राधान्यं विशेष्याणां च शाब्दे प्राधान्ये-
ऽप्यार्थो गुणभावोऽनूद्यमानत्वादित्युक्तम् । अत्र च पृथग् विभक्त्यभावानोत्कर्षाव-
गतिरिति न तन्निबन्धना रसाभिव्यक्तिरिति कृत्वा नखानां 'प्रधानाऽप्रधानयोः
-----------------
[^१] ज० इत्युत्पन्नाभिमानैगतिरुचिरनखैर्ज्योत्स्नया ।
[^२] का० सास्तु काली श्रिये वः ।