2023-03-13 20:49:27 by manu_css
This page has been fully proofread once and needs a second look.
कुर्वन्तीति रजनिकृतः, नखा रजनिकृत इव, अथ नखा एवं रजनिकृतः, रूपकम् ।
तेषां किंविशिष्टानां रजनिकृतां, प्रोलेयोत्पीडदीव्नां प्रालेयानि हिमानि तेषां उत्पीडो
राशिः तद्वद्दीव्यन्तीति दीवानः तेषां, क इव, पितुः पाद इवं, पितुरिति पार्व्वत्याः
पितुर्हिमाचलस्य पाद इव पाद: प्रत्यंतपर्व्वतः हिमालयंपादोऽपि प्रालेयोत्पीडेन
दीप्तिमान् भवति पाण्डुश्च । कथंभूतः पादः तुलिताद्रीन्द्रसारः अद्रीणामिन्द्रोऽद्रीन्द्रः
तस्य सारो बलं तुलितोऽद्रीन्द्रसारो येन स तुलिताद्रीन्द्रसारः, अद्रीन्द्रसार-
समानसारतां अन्तरेण महिषस्य संचूर्णनं न घटते । स किंविशिष्टः वामः,
अत्र शब्द(च्छ)लेनाह, यः केवलं देव्या एव वामो न अपितुं नाकलोक-
द्विषोऽपि वामः प्रतीपः वैरी, नाकलोकं द्वेष्टीति नाकलोकद्विट् तस्य नाकलोकद्विषः,
अपिः समुच्चये । वामशब्दस्यावान्तरसूचनेन महिषमपि समुचिनोति । किं-
विशिष्टस्य तस्य नाकलोकद्विषः छलमहिषतनोः, महिषस्य तनुरिव तनुर्यस्य स
तथा छलेन व्याजेन महिषतनुः छलमहिषतनुः तस्य सप्तम्युपमान इति मध्य-
पदलोपी समास: । ननु महिषस्य कथं वाम: ? इत्यत्र हेतुगर्भं विशेषणमाह, कथं-
भूतः अधैर्यान् मुक्तलीलासमुचितपतनापातपीतासुः, मुक्ता चासौ लीला च मुक्त-
लीला मुक्तलीलया समुचितं सदृशं यत्पतनं, पूर्व्वसदृशेति समासः, तस्य आपातः
आरम्भः तस्मिन् एवं पीता असवो येन स तथा । अत्र अधैर्यादिति अकारप्रश्लेषः ।
कथं, मुक्तलीलाशब्दश्रवणात् । कोऽभिसन्धिः नाकलोकद्विडिति । समरे सर्व्वदैत्य-
संशयं दृष्ट्वा 'कार्या शत्रुषु नावज्ञा' इति लीलाग्रहणे कालविक्षेपं <error>बुध्द्वा</error><fix>बुद्ध्वा</fix> अधैर्य-
मास्थाय <error>लीलां मुक्त्वा</error><fix>लीलामुक्त्वा</fix> सपदि एव हतः, इति भावः । अत्र उपमानरूपकवक्रोक्ति-
शब्दचित्राण्यलङ्काराः ॥१०॥
सं० व्या०--१०. पार्वत्याः सम्बन्धी पादोऽङ्घ्रिः युष्मान् भवतः पातु रक्षतु,
कीदृशः पितुरिव पादः पितुर्जनकस्य गिरेरिव पादः प्रत्यन्तनगः, एकोऽपि पाद-
शब्दो द्विरावर्तनीयः उभयोरपि, किंभूतः पादः तुलिताद्रीन्द्रसारः अद्रीणामिन्द्रस्तस्य
सारो बलं तुलितोऽद्रीन्द्रसारो येन स तथाविधः, पुनरपि किंभूतः अतिपाण्डुः
अधिकधवलः केन तापेन ज्योत्स्नया केषां नखरजनिकृता नखा एवं रजनि-
कृतश्चन्द्रास्तेषां, किंविशिष्टानां प्रालेयोत्पीडदीप्तां(व्नां) प्रालेयानि हिमानि
तेषामुत्पीड उत्करस्तद्वद्दीव्यती(न्ती)ति दीव्यन्त(स्तेषां) इति प्रालेयोत्पीड-
दीप्तां(व्नां) नखास्तेषामेतदुक्तं भवति, पार्वत्याः पादस्य क्लृप्तनखानां कान्त्या
अतिपाण्डुः हिमवत्पादो हिमोत्करप्रभायति, कीदृशः चरणः नो देव्या एव वामः
किं तदङ्घ्रिच्छलमहिषतनोर्नाकलोकद्विषोऽपि इति अपि-शब्दः सम्भावयति, कथं
महिषस्य नामः प्रतिकूलः आसीत् पाद इति चेत् तदाह धैर्यामुक्तलीलासमुचित-