This page has not been fully proofread.

पद्या व्याख्या ]
 
मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
यस्तु प्रयुक्त कुशलो विशेषे,
 
शब्दान् यथावद्व्यवहारकाले ।
सोऽनन्तमाप्नोति जयं परत्र,
 
वाग्योगविद्रुश्यति चापशब्दैः ॥ इति,
 
अलमप्रस्तुतांभिघानेनेत्युपरम्यते । तस्मादनेकार्थाभिधायिशब्दप्रयोगे सुधा बुधाः
• खिद्यन्ते । ततो-
यावद्भिरथै: संबंधः प्राकूशब्दस्यावधारितः ।
तावत् स्वल्पनिराशंसः श्रुतः सन् कुरुते मतिम् ॥
इत्यादि, पूर्वपक्षे निक्षिप्य -
 
यद्यप्यर्थेषु सर्व्वेषु प्राक्शब्द: कुरुते मतिम् ।
तथापि तद्विवक्षार्थ विशे 17 षणम्पेक्षते ॥
तच्चै तद्वदने कार्य मुख्योऽर्थः कोऽवतिष्ठताम् ।
यस्तत्र प्राकरणिकः पौर्वापर्यंगतिः कुतः ॥
 
इत्यादिना-
[ ४१
 
तस्मादनेकार्थत्वेऽपि विशेषणविशेष्ययोः ।
अर्थान्तरप्रतीत्यर्थ वाच्यमेव निबन्धनम् ॥
इति उपसंहारार्थः । अत्र श्लेषालंकारः, अत्र चनञ समासाऽसमर्थत्वदोषयोः परि-
जिहीर्षया चिरकालगलितपूर्वपरिपाठोपरि जामातृशोधनं विमुच्य बाणकृतमेव
पाठमादृत्य 'प्रास्याऽश्वान् शष्पलोभादिव हरितहरेर्न प्रसोढाउनलोष्मा', इत्ययमेव
पाठी भणितुं न्याय्य इति शिवा [शिवम् ] ॥८॥
 
सं० व्या०-८. सा देवी वो युष्माकं मुदे हर्षाय प्रस्तु भवतु, यस्याः पादं
प्राप्त्वा ह्रदमिव प्राप्य महिषः स्वस्थोऽभूत्, किमुक्त भवतिं यस्य ऊष्मणोपचितस्य
कृष्णपङ्कजलप्रत्युपगमेऽपि न स्वस्थता जाता, स हृदवच्चरणं प्राप्याथ स्वस्थो
भूतः, वस्त्वर्थपक्षे छलपक्षे स्वस्थो निरातुरः किल महिषादे: हृदप्राप्त्यां ऊष्मोपगते
सति स्वस्थतेति, यः कीदृशो महिषः हरितो हरयो यस्य शष्पलोभादिव हरितवाल-
तृणगाद्ध र्यादिव रवग्रस्ताश्वः कवलीकृततुरग: महिषः किल ग्रसन्बुद्धया शप्पेषु
लुभ्यतीति परमार्थ: न तु शष्पलोभादिति । पुनरपि किंभूतो यः अप्रसोढानलोष्मा
असोः अनलस्य ऊष्मा ऊष्मत्त्वं येन सः तथोक्तः देवानां हि पक्षतया ऊष्माणं
 
*:
 
नं सोढवानिति वस्त्वर्थः, कविभावस्तु प्रश्वानां ग्रसनेन भानुः स न विद्यते पूर्व-
मेवोपतप्तः स्थितः ततोऽनलस्योष्माणं न सोढवान्, अत एव शब्दच्छलत कवि: कृष्ण
पद्मं यथेच्छन् वरुणमुपागतः इत्युक्तवान्, स्थाणी शङ्करे, छलपक्षेन स्थाणी सुटके