2023-03-13 20:46:17 by manu_css
This page has been fully proofread once and needs a second look.
महिषपदं अतदर्थमपि तद्व्यवहारारोपात् तदर्थवद्भवतीत्यर्थः । न पुनः प्राकृत-
महिषार्थोऽपि सामग्रीविकलो हि तदर्थता चार्थभेदेऽपि शब्दैक्यपक्षाश्रयेण सामग्री-
वशादर्थान्तरप्रतीतिसद्भावे अवाचकस्याप्यसाधुशब्दस्य सामग्रीवशात् वाचकत्व-
मनुमीयते । अतः सामग्रीसद्भावान्वयव्य[16b]तिरेकानुविधायिनीयमर्थान्तर-
प्रतीतिरिति निश्चयो जायते ।
तथा च हरिवार्तिकम्--
असाधुरनुमानेन वाचक: कैश्चिदिष्यते ।
वाचकत्वाविशेषेऽपि नियमः पापपुण्ययोः ॥
इति, केषांचिन्मते असाधुर्ऋतकशब्दः साधुं ऋतकशब्दं स्मारयति । स्मृत्यारूढश्च
ऋतकशब्द एवार्थं बोधयतीति द्योत्यते न च साधुवैलक्षण्यमात्रेण अधर्मजनकत्वेन
वा तस्य साधोरपशब्दव्यवहारविषयत्वं वक्तुं युक्तम् । यतः शब्द इति शब्दनं,
शब्द इति करणव्युत्पत्त्या शब्द्यतेऽभिधीयतेऽनेनेति करणे घञन्तं रूपम् । तस्य बोध-
कस्य शब्दस्य प्रकृतिप्रत्ययादिविभागपरिकल्पनया लक्षणानुगतत्वेन लक्षण-
कृतावयवविकल्पनारहितत्वेन विगुणसामग्रीकत्वेन अर्थाप्रतिपादकत्वेन च साधु-
असाधु-अपशब्दरूपत्वेन त्रैविध्यं, तत्र सामग्रीविकलत्वेनावाचकत्वे साधोरसाधोर्वा
साम्येऽसाधुर्गव्यादिरपि अपशब्दो हि मूलभूतं गवादिशब्दमभिमृश्य तदनुमानेन
तदभिज्ञस्य तु तत्वारोपणार्थं बोधयति । एवं च साधोरसाधोर्वा सामग्रीसापेक्ष-
वाचकत्वावाचकत्त्वे च स्थिते अवाचकत्वात् साधोर्वाचकत्वादसाधोश्चापशब्दत्व-
सुशब्दत्वे च स्थिते पुराणादिष्वप्यसाधुत्वादपशब्दत्वं निरस्तम् । अविषये प्रयुक्तस्य
सुशब्दस्याप्यपशब्दत्त्वं स्थितं, यदुक्तम्--
अश्वगोण्यादयः शब्दा: साधवो विषयान्तरे ।
निमित्तभेदात् सर्व्वत्र साधुत्वं च व्यवस्थितम् ॥ इति,
ननु यद्यसाधोरपि वाचकत्वादनपशब्दत्वं तर्हि वैयाकरणाचार्यविरोधादागम-
विरोधः कथं नापतेत् ? अवहितो भूत्वा शृणु, समानायामप्यर्थावगतौ साधुभिरेव
भाषितव्यं नासाधुभिरिति शास्त्रेण पाक्षिक्यां प्राप्तौ भाषणीयाभाषणीयत्वेन पक्षां-
तरनिवृत्तिः, साधुभिरेव भाषितव्यं नासाधुभिरिति पुण्यपापयोर्विषयीभूतयोर्भाषण-
विधिरपि नियमरूपः निषेधोऽपि नियमरूप एवेति तत्र नियमे तद्गतः साधूच्चा-
रणधर्म्मः । कूपखानकवद्वृत्या प्रतिविहितोऽतो नागमविरोधः । तत्र शब्दप्रधाने
वेदे न सा इति अर्थप्रधानेषु पुराणादिषु साऽस्तु । काव्यस्य च शास्त्रं प्रागेव दर्शितम् ।
तत्र तु शब्दार्थौचित्यजीवातुप्राप्तजीवरसात्मकत्वादुभयप्रधानत्वं तस्मात्कूपखान-
कवृत्तिः पुराणादिष्वप्येवेति स्थितम् । धर्मस्य च साधुशब्दोच्चारणजन्यत्वमा-
चार्योप्याह--