This page has been fully proofread once and needs a second look.

पद्याङ्क ८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम् ::
 
[३६
 

 
एवमस्मिन्वाक्ये स्वमतिपरिणामावधि पदार्थविचारेऽवधारिते संप्रति

वाक्यार्थविचारा या भूमिकोपरच्यते तत्र महिषितवपुषि विद्विषि वाक्यार्थ-

विषयभूते अप्राकरणिकप्राकृतमहिषप्रतिमोत्पत्तौ न किंचिन्निमित्तमुपलभ्यते ।

महिष - -शब्द एवानेकार्थत्वादस्तु अथ तद्विशेषणानि अथ विशेषणानामनेकार्थत्वं

विशेष्यानेकार्थमन्तरेण न संभवतीति कृत्वोभयमपि वा परस्परानुग्राहितया अन्य-

स्यार्थप्रकरणादेरसंभवान्न निमित्तान्तरं विकल्पमहंर्हति, महिष-शब्दस्याने कार्त्वे

विशेषे नियमहेतोरभावादनभिप्रेतेप्यर्थे प्रतीत्युदयप्रसंगात् महिष- शब्द एव न

निमित्तम् । विशेषणानामपि दैत्यम [ 16a] हिषार्थाऽनुगुणार्थद्वययोगो विशेष्यार्थद्वया-

वगमः तदेवाकस्मिकः प्रसज्येत । विशेषणानां च विशेष्यद्वितीयार्थानुगुणार्थनिबंध-

नत्वे व्यक्तमन्योन्याश्रयः, तर्हि उभयमप्यस्तु प्रर्थाअर्थांतरप्रतीत्युत्पादकं यथा मृदादिकं

घटादिकं प्रति विषमोऽयं दृष्टांतः घटाद्युत्पत्तोतौ समवायानपेक्षः कारणक्रमोऽयं शब्दे

तु वाचकभावेन श्रोतुः समवायानुसंधानापेक्षार्थप्रत्ययोत्पत्तिः न वाच्यवाचकस्व-

रूपावस्थानमात्रं कृता, अत्र दैत्यार्थंकृता मंत्र दैत्यार्थविषयस्य प्रयुक्तः शब्द एव

समय -विषय-संस्कारस्याविर्भाव निमित्तं प्राकृत महिषार्थस्य तु प्रप्राकरणिकस्यावश्य-

मन्यदेव निमित्तं वाच्यं, अर्थद्वयेऽपि एक एव वाचकः समयो वा न निमित्तं, एकहेतु-

कत्वे प्राकरणिकाऽप्राकरणिक योरर्थयोर्दैत्यार्थप्रतीतिः, अनन्तरमेव महिषार्थाव-

गमरूपः क्रमनियमो दुरुपपादः, यावन्तोऽर्थास्तावतां शब्दानामुपस्थापनांगीकारे

पक्षान्तरप्रतीतिः स्यात् । नहि एकेन शब्देन अर्थद्वयप्रतीतोतौ शब्दान्तरनिवेशो

युक्तः । अतो वाच्यावाच्ययोरर्थयोर्भिन्न हेतुकत्वमङ्गीकरणीयम् । तच्चोपात्तशब्दा-

वृत्या वा अर्थप्रकरणादिना वार्थो देव्या सह युद्धाभिनिवेशः प्रकरणं च दैत्य-

वर्णनोपक्रमः तेनास्तु न काचन क्षतिः, द्वितीयार्थप्रतीत्युद्भवे प्रकरणादेरसंभवः ।

अन्यस्मात्प्रकरणादेद्वितीयार्थप्रतीतोर्द्वितीयार्थप्रतीतौ तस्यैव हेतुता तस्मात् ग्रस्ताश्वः शष्प-

लोभादित्यादीदौ निबंधनान्तररहितस्य महिषशब्दस्याने कार्थावबोध हेतुक: शब्द-

शक्तिकल्पनारूपोऽर्थान्तरप्रतीत्यभ्युपगमो निर्मूल एव युक्तः । अतो द्वितीयार्था-

भिधाने प्रस्तुतार्थप्रसंगापत्ते रुप मानोपमेयभाव कल्पनापि निर्मूलैव यतो वाच्या-

ऽतिरेकिणोऽर्थाथांतरस्य प्रतीतिरेव दुःप्रतीतिः । यतः शब्दानां संकेतप्रतिसंधाना-

ऽनुकूला संयोगाद्यनुकूला वार्थप्रतीतिः, अतो नियतार्थत्वाभावात् सर्व्वोऽर्थः सार्वैः

शब्दैर्वाच्यो भवति । अतः सामग्रीवशात् अन्योऽपि घटादिशब्द: कंबलाद्यर्थ-

वाचको भवति । सामग्री विकलत्वेन घटशब्दोपि तदर्थबोधको न स्यात् । संकेतस्तु

नियत एव यतः सामग्रीवशादर्थ-प्रत्ययः । ततश्चार्थभेदे शब्दभेदाद् अन्यो दैत्य-

वाची अन्यो महिषवांवाची सामग्रीवशात् द्वितीयार्थोद्बोधकसंभवात् समासोक्ति-

न्यायेन विशेषणसाम्ययुक्त्या द्वितीयमर्थं बोधयितुं शक्नुयादेव, तत्र हि विशेष्
 
.
 
:
 
यं