This page has not been fully proofread.

पद्याङ्क ८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम् ::
 
[३६
 

 
एवमस्मिन्वाक्ये स्वमतिपरिणामावधि पदार्थविचारेऽवधारिते संप्रति
वाक्यार्थविचारा या भूमिकोपरच्यते तत्र महिषितवपुषि विद्विषि वाक्यार्थ-
विषयभूते अप्राकरणिकप्राकृतमहिषप्रतिमोत्पत्तौ न किंचिन्निमित्तमुपलभ्यते ।
महिष - शब्द एवानेकार्थत्वादस्तु अथ तद्विशेषणानि अथ विशेषणानामनेकार्थत्वं
विशेष्यानेकार्थमन्तरेण न संभवतीति कृत्वोभयमपि वा परस्परानुग्राहितया अन्य-
स्यार्थप्रकरणादेरसंभवान्न निमित्तान्तरं विकल्पमहंति, महिष-शब्दस्याने कार्यत्वे
विशेषे नियमहेतोरभावादनभिप्रेतेप्यर्थे प्रतीत्युदयप्रसंगात् महिष- शब्द एव न
निमित्तम् । विशेषणानामपि दैत्यम [ 16a] हिषार्थाऽनुगुणार्थद्वययोगो विशेष्यार्थद्वया-
वगमः तदेवाकस्मिकः प्रसज्येत । विशेषणानां च विशेष्यद्वितीयार्थानुगुणार्थनिबंध-
नत्वे व्यक्तमन्योन्याश्रयः, तर्हि उभयमप्यस्तु प्रर्थातरप्रतीत्युत्पादकं यथा मृदादिकं
घटादिकं प्रति विषमोऽयं दृष्टांतः घटाद्युत्पत्तो समवायानपेक्षः कारणक्रमोऽयं शब्दे
तु वाचकभावेन श्रोतुः समवायानुसंधानापेक्षार्थप्रत्ययोत्पत्तिः न वाच्यवाचकस्व-
रूपावस्थानमात्र कृता, अत्र दैत्यार्थंकृता मंत्र दैत्यार्थविषयस्य प्रयुक्तः शब्द एव
समय विषय-संस्कारस्याविर्भाव निमित्तं प्राकृत महिषार्थस्य तु प्रप्राकरणिकस्यावश्य-
मन्यदेव निमित्तं वाच्यं, अर्थद्वयेऽपि एक एव वाचकः समयो वा न निमित्तं, एकहेतु-
कत्वे प्राकरणिकाऽप्राकरणिक योरर्थयोदैत्यार्थप्रतीतिः, अनन्तरमेव महिषार्थाव-
गमरूपः क्रमनियमो दुरुपपादः, यावन्तोऽर्थास्तावतां शब्दानामुपस्थापनांगीकारे
पक्षान्तरप्रतीतिः स्यात् । नहि एकेन शब्देन अर्थद्वयप्रतीतो शब्दान्तरनिवेशो
युक्तः । अतो वाच्यावाच्ययोरर्थयोभिन्न हेतुकत्वमङ्गीकरणीयम् । तच्चोपात्तशब्दा-
वृत्या वा अर्थप्रकरणादिना वार्थो देव्या सह युद्धाभिनिवेशः प्रकरणं च दैत्य-
वर्णनोपक्रमः तेनास्तु न काचन क्षतिः, द्वितीयार्थप्रतीत्युद्भवे प्रकरणादेरसंभवः ।
अन्यस्मात्प्रकरणादेद्वितीयार्थप्रतीतो तस्यैव हेतुता तस्मात् ग्रस्ताश्वः शष्प-
लोभादित्यादी निबंधनान्तररहितस्य महिषशब्दस्याने कार्थावबोध हेतुक: शब्द-
शक्तिकल्पनारूपोऽर्थान्तरप्रतीत्यभ्युपगमो निर्मूल एव युक्तः । अतो द्वितीयार्था-
भिधाने प्रस्तुतार्थप्रसंगापत्ते रुप मानोपमेयभाव कल्पनापि निर्मूलैव यतो वाच्या-
ऽतिरेकिणोऽर्थातरस्य प्रतीतिरेव दुःप्रतीतिः । यतः शब्दानां संकेतप्रतिसंधाना-
ऽनुकूला संयोगाद्यनुकूला वार्थप्रतीतिः, अतो नियतार्थत्वाभावात् सर्वोऽर्थः सार्वैः
शब्दैर्वाच्यो भवति । अतः सामग्रीवशात् अन्योऽपि घटादिशब्द: कंबलाद्यर्थ-
वाचको भवति । सामग्री विकलत्वेन घटशब्दोपि तदर्थबोधको न स्यात् । संकेतस्तु
नियत एव यतः सामग्रीवशादर्थ-प्रत्ययः । ततश्चार्थभेदे शब्दभेदाद् अन्यो दैत्य-
वाची अन्यो महिषवांची सामग्रीवशात् द्वितीयार्थोद्बोधकसंभवात् समासोक्ति-
न्यायेन विशेषणसाम्ययुक्त्या द्वितीयमर्थं बोधयितुं शक्नुयादेव, तत्र हि विशेष्य
 
.
 
: