2023-03-13 20:43:58 by manu_css
This page has been fully proofread once and needs a second look.
त्वेन प्राधान्यादुत्तरपदार्थस्य प्रसोढत्वस्यानूद्यमानत्वेन प्राधान्याभावात् । उत्तर-
पदार्थप्रधानतत्पुरुष इति लक्षणं समासे च सति प्रसोढत्वानुवादेन नञर्थविधानस्य
निर्जीवीकरणप्रसंगात्, उत्तरपदार्थप्राधान्येन पूर्वपदार्थ प्राधान्याभावात् यत्र
नञर्थप्राधान्याभावः तत्र समासः कर्त्तव्य एवेत्यर्थः । अत्रार्थे प्रसज्यपर्युदासयो-
रेकस्मिन् वाक्ये उदाहरणम्--
'काव्यार्थतत्त्वावगमो न वृद्धाराधनं विना ।
अनिष्टवान् राजसूयं कः स्वर्गसुखमश्नुते’ ॥ इति
तथा चोक्तम्-
क्रियाकर्त्रंशभागर्थो वाक्ये योज्यो नञा यदि ।
क्रियांश एवापोह्यः स्यान्नेष्टवानितिवत्तदा ॥
अकुंभकार इतिवद् वृत्तौ तु स्याद् विपर्ययः ।
इत्येष नियमोऽर्थस्य शब्दशक्तिस्वभावतः ॥ इति,
इह केचिच्छब्दशास्त्रज्ञानात् पर्युदासेऽपि समासनैयत्यादरं न कुर्व्वन्ति प्रसह्य-
पर्युदासयोविवेकमबुध्वा प्रसज्यवत्, पर्युदासोऽपि शक्तिकांतेषु मानो न कुर्व्वत
इत्यादौ समासं न कुर्व्वन्ति । इष्यते च स इति ननु प्रसोढत्वनिषेधः प्राधान्येनास्तु
न प्रसोढेतरत्वविधिः । एवं 'न श्राद्धं भुंक्ते अश्राद्धभोजी'त्येतद्वत् प्रसज्यप्रतिषेधेऽपि
समासो भवतु । किं नो बाधकम् ? श्रूयतामवधानेन, अत्र नञश्चोत्तरपदार्थेन
श्राद्धेन श्राद्धप्रतिषेधरूपः कोऽपि संबंधो न प्रतीयते, अपि तु विशेष्यत्वेन प्रधानेन
तद्भोज्यर्थेन सम्बद्ध्यते । तत्रापि भोजिपदे क्रियाकर्त्रंशवति कर्त्रंश एव प्रधानं
न क्रियांश: । अयमभिप्रायः, अश्राद्धभोजीत्यत्र त्रीणि पदानि, तत्र प्रथमतः श्राद्ध-
पदेन समासे श्राद्धंव्यतिरिक्तं भुंक्ते इत्यर्थात् श्राद्धभोजनप्रतिषेधाभावादभिमतार्थ-
लाभो न तस्मात् श्राद्धपदेन न समासः, किंतु श्राद्धं भोक्तुं शीलमस्येति विगृह्य 'सुप्य-
जातौ णिनि ताच्छील्ये' इति श्राद्धशब्द उपपदे णिनि-प्रत्ययमुत्पाद्य उपपदमतिङिति
समासे सति श्राद्धभोजीति निष्पन्ने पश्चान्नञा सह श्राद्धभोजीत्यनेन समासः । तथा च
सति समासे कर्त्रंशस्य प्राधान्यं न क्रियांशस्य, वाक्य एव क्रियांशनिषेधादित्युक्तवान्,
अत्र श्राद्धभोजिपदे श्राद्ध भोजनशीलः कर्त्ता प्रतीयते, न तस्य भोजनमात्रं क्रिया-
कर्त्तरि णिनेर्विहितत्वात् कर्त्तरि कृदिति तर्हि उभयांशप्राधान्यात् । कृदंते क्रियांश-
संबंधोऽपि नञोस्तु न समासे कर्त्रंशः प्रधानं, ततः शब्दव्यापारगम्यः कर्त्रंशेनैव
संबंधो न क्रियांशेन, तर्हि कस्य कर्त्तत्यपेक्षायां क्रियासंबंधोऽपि शब्दव्यापारगम्योऽस्तु
न क्रियासंबंधसामार्थ्यात् प्रमाणान्तरादवसीयते, क्रियासंबंधस्वीकारं विना
कर्तृत्वानुपपत्तेः । अर्थापत्त्या क्रियासंबंधावगतिः । तथा च मदीये दर्शनसंग्रहे-