This page has been fully proofread once and needs a second look.

+1
 
पद्याङ्क ८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ३७
 
त्वेन प्राधान्यादुत्तरपदार्थस्य प्रसोढत्वस्यानूद्यमानत्वेन प्राधान्याभावात् । उत्तर-

पदार्थप्रधानतत्पुरुष इति लक्षणं समासे च सति प्रसोढत्वानुवादेन नर्थविधानस्य

निर्जीवीकरणप्रसंगात्, उत्तरपदार्थप्राधान्येन पूर्वपदार्थ प्राधान्याभावात् यत्र
 

नञर्थ प्राधान्याभावः तत्र समासः कर्त्तव्य एवेत्यर्थः । अत्रार्थे प्रसज्यपर्यु दासयो-

रेकस्मिन् वाक्ये उदाहरणम्-
तथा चोक्तम्
-
::
 
:
 

 
'काव्यार्थतत्त्वावगमो न वृद्धाराधनं विना ।
 

निष्टवान् राजसूर्ययं कः स्वर्गसुखमश्नुते ॥ इति
 
क्रियाक

 
तथा चोक्तम्-
 
क्रियाकर्
त्रंशभागर्थो वाक्ये योज्यो ननाञा यदि ।

क्रियांश एवापोह्यः स्यान्नेष्टवानितिवत्तदा ॥

अकुंभकार इतिवद् वृत्तौ तु स्याद् विपर्ययः ।

इत्येष नियमोऽर्थस्य शब्दशक्तिस्वभावतः ॥ इति
 
,
 
इह के चिच्छन्ब्दशास्त्रज्ञानात् पर्यु दासेऽपि समासनैयत्यादरं न कुर्व्वन्ति प्रसह्य-

पर्यु दासयोविवेकमबुध्वा प्रसज्यवत्, पर्यु दासोऽपि शक्तिकांतेषु मानो न कुर्व्वत

इत्यादौ समासं न कुर्व्वन्ति । इष्यते च स इति ननु प्रसोढत्वनिषेधः प्राधान्येनास्तु

न प्रसोढेत रत्व रत्वविधिः । एवं 'न श्राद्धं भुंक्त प्रते अश्राद्धभोजी 'त्येतद्वत् प्रसज्यप्रतिषेधेऽपि

समासो भवतु । किं नो बाधकम् ? श्रूयतामवधानेन, अत्र नञश्चोत्तरपदार्थेन

श्राद्धेन श्राद्धप्रतिषेधरूपः कोऽपि संबंधो न प्रतीयते, अपि तु विशेष्यत्वेन प्रधानेन

तद्भोज्यर्थेन सम्बद्ध्यते । तत्रापि भोजिपदे क्रियाकर्त्रशवति कत्रंशवति कर्त्रंश एव प्रधानं

न क्रियांश: । अयमभिप्रायः, अश्राद्ध भोजीत्यत्र त्रीणि पदानि, तत्र प्रथमतः श्राद्ध-

पदेन समासे श्राद्धंव्यतिरिक्तं भुंक्ते इत्यर्थात् श्राद्धभोजनप्रतिषेधाभावादभिमतार्थ-

लाभो न तस्मात् श्राद्धपदेन न समासः, किंतु श्राद्धं भोक्तुं शीलमस्येति विगृह्य 'सुप्य-

जातौ णिनि ताच्छील्ये' इति श्राद्धंशब्द उपपदे णिनि-प्रत्ययमुत्पाद्य उपपदम तिङिति

समासे सति श्राद्ध भोजीति निष्पन्ने पश्चान्नत्राञा सह श्राद्धभोजीत्यनेन समासः । तथा च

सति समासे कत्र र्त्रंशस्य प्राधान्यं न क्रियांशस्य, वाक्य एव क्रियांश निषेधादित्युक्तवान्,
 

अत्र
श्राद्धभोजिंजिपदे श्राद्ध भोजनशीलः कर्त्ता प्रतीयते, न तस्य भोजनमात्रं क्रिया-
कर्त्तरि जि

कर्त्तरि णि
नेर्विहितत्वात् कर्त्तरि कृदिति तर्हि उभयांशप्राधान्यात् । कृदंते क्रियांश-

संबंधोऽपि नमोञोस्तु न समासे कर्त्रंशः प्रधानं, ततः शब्दव्यापारगम्यः कर्त्रंशेनैव

संबंधो न क्रियांशेन, तर्हि कस्य कर्त्तत्यपेक्षायां क्रियासंबंधोऽपि शब्दव्यापारगम्योऽस्तु

न क्रियासंबंधसामार्थ्यात् प्रमाणान्तरादवसीयते, क्रियासंबंधस्वीकारं विना

कर्तृत्वानुपपत्तेः । अर्थापत्त्या क्रियासंबंधावगतिः । तथा च मदीये दर्शनसंग्रहे-
J'