This page has been fully proofread once and needs a second look.

३६ ]
 
महाकविबाण - विरचितं चण्डीशतकम्
 
[ पद्याङ्क ८ व्याख्यां
 
यथा युगोपात्मानमत्रस्त इत्यत्र निषेधगुणाभावेन विधिरिति तात्पर्यार्थः । एतच्च

समानाऽसमानजातीयव्यावर्त्तकं निषेधात्मकत्वेन समानजातीयप्रसज्यप्रतिषेधे

समासाभावः । नञ्- समासस्य विषयेन प्रसज्यप्रतिषेधः तस्य समास , तस्य समासविषयविपरी
 
"}
 
"
 
-
 
.
 
-
तत्वात्, तदुक्तं, अप्राधान्यं विधेर्यत्र प्रतिषेधोऽसौ क्रियया सह यत्र नजिति ञिति आरोप्य-

माणसद्भावोपसर्ज्जनः प्रसज्य -प्रतिषेधः क्रियासंबंधवान्निषेधः । प्रसज्य -प्रतिषेध

इति च प्रनेनापि लक्षणेन क्रियाशब्दैर्भवत्यादिभिः समासाभावात् । सुतस्य नत्रबंतस्य नञ:

समर्थेन सुबतेनैव सह-सुपेत्यधिकारे समासविधानात् प्रसज्य-प्रतिषेधे समासा-

भावः । यथा, 'नवजलधर :रः सन्नद्धोयं न दृप्तनिशाचर' इत्यत्र । अत्र च अप्रसोढ़ा-
ढा-
नलोष्मेति अर्थस्य प्रतिषेधप्रधानस्य संबंधानुपपत्तेः पर्युदासो न युक्तः । यतोऽत्र

प्रसोढानलोष्मत्वप्रतिषेधः प्रधानतया वक्तव्ये नाभिमतः प्रसक्तस्य प्रसोढानलोष्म-

त्वस्यैव प्रतिषेध्यत्वात् न तु प्रसोढानलोष्मत्वेत्तरविधिः, पर्युदासे हि समासे सति

प्रसोढानलोष्मेतरविधिः पर्यवस्यतीति नियमेन विवक्षितेतरसिद्धिरेव नाभिमत-

सिद्धिः । असोढेति पदे एव क्रियांशस्य प्रतिषेधप्रतीतोतौ सत्यां नञः क्रियासंबन्ध

उपपन्नो भवति, अयमभिसन्धिः । भवति पचतीत्यादिषु तिङन्तेषु प्रकृत्या क्रियोच्यते

प्रत्ययेन कर्त्ता सिद्धिरूपः तथापि समुदाये साध्यरूपा क्रिया एव प्रधानं, कृदन्तेषु

पाचककुंभकारादिषु तु कर्ता एव प्रधानं सिद्धरूपः, न क्रिया; तथापि तव्यनिष्ठा- .

दिषु उभयप्राधान्येन प्रयोगः क्वचित्क्रियाप्राधान्येनैव यथा घटमकार्षीदिति

क्रियान्वयेन वाक्यस्य नैराकांक्षम । एवं घटं कृतवानित्यपि च क्रियांशप्राधान्येन

नैराकांक्षमेव । तथा सति प्रसोढ़ेढेति पदेऽपि क्रियांशप्राधान्यात् तत्प्रतिषेधप्रतीतो
ननः
तौ
नञः
क्रियया संबंधोपपत्तेः क्रियासंबंध-नञर्थः प्रसज्यप्रतिषेध इत्यस्य कृतसंबंधेऽपि न

विरोधः, तर्हिः समासे अपि क्रियांशप्राधान्यान्नर्थसंबंध: प्रतीयतां नाम, मैवं तत्प्रती-

तेर्योगिनामध्प्यगम्यत्वात् । यतः प्रसोढेत्यस्य: निषेस्य गुणीभूतत्वेन तादृशस्य

अन्यस्यैवार्थस्य तत्सदृशस्य सद्भावे प्रतीतेः । यथा अनश्व इत्युक्ते अश्वनिषेधं

उपसर्ज्जनीकृत्याश्वसदृशस्य गर्दभस्यैव सद्भाव: प्रतिपादितो भवति । यदि च

तत्सादृश्यं न प्रतिपाद्यं स्यात् किमर्थं सर्व्वतद्रूपताप्रतिपादनपराश्वनिषेधेन गर्द्दभं

ब्रूयात् ? गर्द्दंभदभं इत्येव किकिं न तस्मात्सर्व्वतद्रूपता निषेधे किञ्चित्ता द्रूप्यस्वीकारपर-

त्वमेव स्वीकर्त्तव्यम् । शब्दशक्तिबलादेव न च केनापि प्रकारेण प्रसोढत्वनिषेध-

प्रतीतिरित्यर्थः । विविक्षितस्यार्थस्य प्रसोढत्वनिषेधस्य कथमपि सिद्धीधौ प्राधान्येन

समासो न युक्तः । तस्मादेकं संघिधित्सतोऽपरं प्रच्यवत इति [ 15a] न्यायात् । निषेध-

प्राधान्ये समासाभावः। समासे च निषेधाऽप्राधान्यमित्यर्थः । भवतु समासेऽपि
नव

नञ
र्थस्य प्राधान्यं, का नः क्षतिरिति । श्रहो प्रज्ञाप्रागल्भ्यमायुष्मतां यत्समास-

लक्षणमपि विलक्षणतामापाद्यमानं नं पश्यति । विलोकयन्तु निषेधस्य विधीयमान-
..
 
.
 
.