2023-03-13 20:42:47 by manu_css
This page has been fully proofread once and needs a second look.
कश्चिदभिनिवेशः । सर्व्वथा वाक्येन वा कथितनयेन समासेन भवितव्यं यतः
समासे पूर्व्वन्यायेन प्रधानानूद्यमानगतो विशेषो विधीयमानसादृश्येन सूर्यसंबंधिनां
अश्वानां वाक्यार्थी भवति । एतच्च नाल्पविवरण[14a]गोचरविद्भिरूह्यं, पदार्थ-
मात्रं व्याक्रियते । अत्र विशेषणाभिप्रायः, यावता सूर्यस्याश्वाः प्राप्तास्तावदेव
तत्तापाभिभूतोऽनलं गत इति ध्वन्यते । ह्रदपक्षे देवीचरणपक्षे तु यथा नील-
तृणानि स्वेच्छयाऽव्यग्रोऽत्ति तथा सूर्यमप्यगणयन् अश्वान् गृहीतवानित्यर्थः । पुनः
किंविशिष्टः, अप्रसोढानलोष्मा, न प्रसोढः अनलस्याग्नेरूष्मा प्रतापो येन स तथा ।
सूर्यं जित्वाऽनलमपि जितवान् । ह्रदपक्षे सूर्योष्मतापितोऽनलं गतस्तत्रापि तत्तेजो न
सेहे, ततोऽनलं जित्वा स्थाणुं हरं गतः । तत्र रणकण्डूं विनीय तेन संग्रामं कृत्वा
अन्तकोपान्तवर्ती जातः । महिषस्य स्वभावोऽयं यत्स्थाणौ कीलके कण्डूं खर्ज्जूल-
शरीरभावं घर्षणादिना अपनयति, तत्रापि युद्धश्रद्धामशिथिलीकृत्य तदनु यमलोकं
गतः । अन्तकस्य उपान्तः समीपं अन्तकोपान्तः तत्र वर्त्तत इत्येवशीलः, अन्तको-
पान्तवर्ती । उत्प्रेक्ष्यते, प्रतिमहिषरुषा इव, प्रतिपक्षो महिषः प्रतिमहिषः तस्मिन्
रुट् प्रतिमहिषरुट् तया प्रतिमहिषरुषा, महिषः खलु प्रतिमहिषं न सहत एव । तदनु
कृष्णं इच्छन् तल्लोकं युद्धाय गत इत्यर्थः; कमिव, पकमिव यथाऽत्र इवार्थे
यथानलाभितप्तो महिषः पङ्कमिच्छति, पङ्क इव कृष्णवर्त्म इति वाक्छलम् ।
अथ सर्व्वोत्कृष्टत्वेन यथा पङ्कं अहं मर्द्दयामि तथैवैनमिति बुद्याप् तदनु वरुण-
मुपगतः। कया इव, मज्जनया मज्जनश्रद्धया इव । यथा महिषः पङ्कलिप्तः सन्
मज्जनश्रद्धया जलावगाहार्थं वरुणं याति । अत्र वरुणशब्देन लक्षणया जलं लक्ष्यते;
एतदुक्तं भवति, सूर्यानल-स्थाणु-यम-कृष्ण-वरुणानपि जित्वाऽनपगतसमरकेलि-
कंडूतिर्भगवतीचरणतलं प्राप्य निर्वाणमापेत्यर्थः । यथा प्राकृतमहिषः स्वेच्छाहार-
तृप्तो दिनकराऽनलादितापमसहमानोऽल्पजलाशयेऽपरितुष्टोऽगाधजलं प्राप्य सुखी
भवति इति वाक्यार्थ: । अत्रेदं विचार्यते, अप्रसोढानलोष्मेत्यत्र नञ्-समासानुप-
पत्तिः । न प्रसोढः अप्रसोढः इति <flag>नञा</flag> विगृह्य नञि तत्पुरुषं विधाय अनलस्य
ऊष्मा अनलोष्मा इति पदे विधाय पश्चात्सह सुपेति एकवचनस्य विवक्षितत्त्वात्
अप्रसोढः अनलोष्मा येनेति विग्रहः । अथ प्रसोढः अनलोष्मा येनेति प्रसोढानलोष्मा
पश्चान्नञ्-समासः तथापि प्रसह्यार्थ एव दृश्यते न पर्युदासः । स तावदनुपपन्नः ।
समासस्य पर्युदासविषयत्वात् नञ्-विशेषणं विशेषणस्य च व्यावर्तकत्त्वात् । नञः
सुबंतेन उत्तरपदेन संबंधस्य उपपन्नत्वात् निषेध्येतरसद्भावप्रतिपादको नञ्-पर्यु-
दास इति तल्लक्षणत्वात् । यत्र च नञ्-पदं उत्तरपदेन संबध्यते सोऽपि च तदुक्तम्--
प्रधानत्वविधेर्यत्र प्रतिषेधे प्रधानता ।
पर्युदासः स विज्ञेयो, यत्रोत्तरप[14b]दे नञि ॥ इति,