This page has been fully proofread once and needs a second look.

पद्याङ्क ८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम् .
 
[ ३५
 
कश्चिदभिनिवेशः । सर्व्वथा वाक्येन वा कथितनयेन समासेन भवितव्यं यतः

समासे पूर्व्वन्यायेन प्रधानानूद्यमानगतो विशेषो विधीयमानसादृश्येन सूर्य संबंधितां
नां
अश्वानां वाक्यार्थी भवति । एतच्च नाल्पविवरण[14a]गोचरविद्भिरूह्यं, पदार्थ -
-
मात्रं व्याक्रियते । अत्र विशेषणाभिप्रायः, यावता सूर्यस्याश्वाः प्राप्तास्तावदेव

तत्तापाभिभूतोऽनलं गत इति ध्वन्यते । हृह्रदपक्षे देवीचरणपक्षे तु यथा नील-

तृणांणानि स्वेच्छयाऽव्यग्रोऽत्ति तथा सूर्यमप्यंगणयन् प्रश्वान् गृहीतवा नित्यर्थः । पुनः

किंविशिष्टः, अप्रसोढानलोष्मा, न प्रसोढः अनलस्याग्नेरूष्मा प्रतापो येन स तथा ।

सूर्यं जित्वानलमपि जितवान् । ह्रदपक्षे सूर्योष्मतापितोऽनलं गतस्तत्रापि तत्तेजो न

सेहे, ततोऽनलं जित्वांवा स्थाणुं हरं गतः । तत्र रणकण्डूं विनीय तेन संग्रामं कृत्वा

अन्तकोपान्तवर्ती जातः । महिषस्य स्वभावोऽयं यत्स्थानोणौ कीलके कण्डूडूं खर्ज्जूल-

शरीरभावं घर्षणादिना अपनयति, तत्रापि युद्धश्रद्धामशिथिलीकृत्य तदनु यमलोकं

गतः । अन्तकस्य उपान्तः समीपं अन्तकोपान्तः तत्र वर्त्तत इत्येवंशीलः, अन्तको-

पान्तवर्ती । उत्प्रेक्ष्यते, प्रतिमहिषरुषा इव, प्रतिपक्षोंषो महिषः प्रतिमहिषः तस्मिन्

रुट् प्रतिमहिषरुट् तया प्रतिमहिषरुषा, महिषः खलु प्रतिमहिषं न सहत एव । तदनु

कृष्णं इच्छन् तल्लोकं युद्धाय गत इत्यर्थः; कमिव, पकमिव यथाऽत्र इवार्थे

यथानलाभितप्तो महिषः पङ्कमिच्छति, पङ्क इव कृष्णवर्ल्सत्म इति वाक्छलम् ।

अथ सर्व्वोत्कृष्टत्वेनं यथा पङ्कं अहं मर्द्दयामि तथैवैनमिति बुद्धयायाप् तदनु वरुण-

मुपगतः। कया इव, मज्जनया मज्जनश्रद्धया इव । यथा मंहिषः पङ्कलिप्तः सन्

मज्जनश्रद्धया जलावगाहार्थं वरुणं याति । अत्र वरुणशब्देन लक्षणया जलं लक्ष्यते;

एतदुक्तं भवति, सूर्यानल -स्थाणु-यम-कृष्ण-वरुणानपि जित्वाऽनपंगतसमरकेलि-

कंडूतिर्भगवतीचरणतलं प्राप्य निर्वाणमापेत्यर्थः । यथा प्राकृतमहिषः स्वेच्छाहार-

तृप्तो दिनकरांन राऽनलादितापमसहमानोऽल्पजलाशयेऽपरितुष्टोऽगाधजलं प्राप्य सुखी

भवति इति वाक्यार्थ: । अत्रेदं विचार्यते, प्रसोढानलोष्मेत्यत्र नञ्- समासानुप-

पत्तिः । न प्रसोढः असोःप्रसोढः इति <flag>नञा</flag> विगृह्य नञि तत्पुरुषं विधाय अस्
नलस्य
ऊष्मा अनलोष्मा इति पदे विधाय पश्चात्सह सुपेति एकवचनस्य विवक्षितत्त्वात्

अप्र
सोढः अनलोष्मा येनेति विग्रहः । अथ प्रसोढः अनलोष्मा येनेति प्रसोढानलोष्मा

पश्चान्नञ् -समासः तथापि प्रसह्यार्थ एव दृश्यते न पर्युदासः । स तावदनुपपन्नः ।

समासस्य पर्युदासविषयत्वात् नञ्-विशेषणं विशेषणस्य च व्यावर्तकत्त्वात् । नञः

सुवंबंतेन उत्तरपदेन संबंधस्य उपपन्नत्वात् निषेध्येतरसद्भावप्रतिपादको नञ - ञ्-पर्यु -
-
दास इति तल्लक्षणत्वात् । यत्र च नत्र - ञ्-पदं उत्तरपदेन संबध्यते सोऽपि च तदुक्तम्-
-
 
प्रधानत्वविधैधेर्यत्र प्रतिषेधे प्रधानता ।

पर्युदासः स विज्ञेयो, यत्रोत्तरप[14b]दे नञि ॥ इति,
 
2
 
:
 
.
 
..
 

 
-