This page has not been fully proofread.

पद्याङ्क ८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम् .
 
[ ३५
 
कश्चिदभिनिवेशः । सर्व्वथा वाक्येन वा कथितनयेन समासेन भवितव्यं यतः
समासे पूर्व्वन्यायेन प्रधानानूद्यमानगतो विशेषो विधीयमानसादृश्येन सूर्य संबंधितां
अश्वानां वाक्यार्थी भवति । एतच्च नाल्पविवरण[14a]गोचरविद्भिरूह्यं, पदार्थ -
मात्र व्याक्रियते । अत्र विशेषणाभिप्रायः, यावता सूर्यस्याश्वाः प्राप्तास्तावदेव
तत्तापाभिभूतोऽनलं गत इति ध्वन्यते । हृदपक्षे देवीचरणपक्षे तु यथा नील-
तृणांनि स्वेच्छयाऽव्यग्रोऽत्ति तथा सूर्यमप्यंगणयन् प्रश्वान् गृहीतवा नित्यर्थः । पुनः
किंविशिष्टः, अप्रसोढानलोष्मा, न प्रसोढः अनलस्याग्नेरूष्मा प्रतापो येन स तथा ।
सूर्य जित्वानलमपि जितवान् । ह्रदपक्षे सूर्योष्मतापितोऽनलं गतस्तत्रापि तत्तेजो न
सेहे, ततोऽनल जित्वां स्थाणुं हरं गतः । तत्र रणकण्डूं विनीय तेन संग्राम कृत्वा
अन्तकोपान्तवर्ती जातः । महिषस्य स्वभावोऽयं यत्स्थानो कीलके कण्डू खर्जूल-
शरीरभावं घर्षणादिना अपनयति तत्रापि युद्धश्रद्धामशिथिलीकृत्य तदनु यमलोकं
गतः । अन्तकस्य उपान्तः समीप अन्तकोपान्तः तत्र वर्त्तत इत्येवंशीलः, अन्तको-
पान्तवर्ती । उत्प्रेक्ष्यते, प्रतिमहिषरुषा इव, प्रतिपक्षों महिषः प्रतिमहिषः तस्मिन्
रुट् प्रतिमहिषरुट् तया प्रतिमहिषरुषा, महिषः खलु प्रतिमहिषं न सहत एव । तदनु
कृष्णं इच्छन् तल्लोकं युद्धाय गत इत्यर्थः; कमिव, पकमिव यथाऽत्र इवार्थे
यथानलाभितप्तो महिषः पङ्कमिच्छति, पङ्क इव कृष्णवर्ल्स इति वाक्छलम् ।
अथ सर्वोत्कृष्टत्वेनं यथा पङ्कं अहं मयामि तथैवैनमिति बुद्धया तदनु वरुण-
मुपगतः। कया इव, मज्जनया मज्जनश्रद्धया इव । यथा मंहिषः पङ्कलिप्तः सन्
मज्जनश्रद्धया जलावगाहार्थं वरुणं याति । अत्र वरुणशब्देन लक्षणया जलं लक्ष्यते;
एतदुक्त भवति, सूर्यानल स्थाणु-यम-कृष्ण-वरुणानपि जित्वाऽनपंगतसमरकेलि-
कंडूतिर्भगवतीचरणतलं प्राप्य निर्वाणमापेत्यर्थः । यथा प्राकृतमहिषः स्वेच्छाहार-
तृप्तो दिनकरांन लादितापमसहमानोऽल्पजलाशयेऽपरितुष्टोऽगाधजलं प्राप्य सुखी
भवति इति वाक्यार्थ: । अत्रेदं विचार्य, प्रसोढानलोष्मेत्यत्र नञ्- समासानुप-
पत्तिः । न प्रसोढः असोः इति नञा विगृह्य नञि तत्पुरुषं विधाय अस्
ऊष्मा अनलोष्मा इति पदे विधाय पश्चात्सह सुपेति एकवचनस्य विवक्षितत्त्वात्
असो अनलोष्मा येनेति विग्रहः । अथ प्रसोढः अनलोष्मा येनेति प्रसोढानलोष्मा
पश्चान्नञ् समासः तथापि प्रसह्यार्थ एव दृश्यते न पर्युदासः । स तावदनुपपन्नः ।
समासस्य पर्युदासविषयत्वात् नञ-विशेषणं विशेषणस्य च व्यावर्तकत्त्वात् । नञः
सुवंतेन उत्तरपदेन संबंधस्य उपपन्नत्वात् निषेध्येतरसद्भावप्रतिपादको नञ - पर्यु -
दास इति तल्लक्षणत्वात् । यत्र च नत्र - पदं उत्तरपदेन संबध्यते सोऽपि च तदुक्तम्-
प्रधानत्वविधैर्यत्र प्रतिषेधे प्रधानता ।
पर्युदासः स विज्ञेयो, यत्रोत्तरप[14b]दे नञि ॥ इति,
 
2
 
:
 
.
 
..
 

 
-