2023-02-24 17:17:32 by ambuda-bot
This page has not been fully proofread.
३४ ]
महाकविबाण - विरचितं चण्डीशतकम्
[ पद्याङ्क ८ व्याख्या
कुं०वृ०-सा देवी मृडानी वो युष्माकं मुदे हर्षाय भूयात् । सां का, महिषो महिषनामा
दैत्यो यस्याः पादं आप्त्वा प्राप्य स्वस्थोऽभूत् स्वास्थ्यं लेभे । कः कमिव, प्राकृत
महिषो ह्रदमिव । पातीति: पाः तं ददातीति पाद: [13b] - 'तन्त्रस्थो रक्षाप्रदं
"
A
4
प्य स्वस्थो भवतीति', अथवा, पां प्रत्तीति पाद् तं पादं प्राप्य स्व: स्वर्गे
तिष्ठतीति स्वःस्थ: । सेनातनुत्रादिरक्षा हेतुत्वात् स्वर्गमापेति पक्षे स्वस्थो
निराकुल: प्राकृतमहिषो हृदं प्राप्य स्वास्थ्यमाप्नोतीति । किविशिष्टो महिषः)
ग्रस्ताश्वः, कस्येत्यपेक्षायां हरितहरेः सूर्यस्य हरिता हरयो यस्य स तस्य ! उत्प्रेक्ष्यते,
शप्पलोभादिव नूतनतृणाभिलाषादिव महिषस्य स्वभावोऽयं यन्नवतृणादनम्,
महिषः खलु तृणाशी भवति, सूर्यस्य च हरयो हरितवर्णा अत एव हरिततृणभ्रान्त्या
कवलीकृताः । एतावता सूर्यलोकोऽपि तेन जित इति । एवं अत्र हरितहरिपदं
विहति । यतः
22
S
नाम्ना कर्माणुरूपेण ज्ञायते गुणदोषयोः
काव्यस्य पुरुषस्येव व्यक्ति: संवादपातिनी ।
?
अत्र] [[ग्र]स्ताश्वशब्दो हरितहरिशब्दस्य सापेक्षमहिषशब्दस्य विशेषणत्वेन
सापेक्ष:, ग्रस्ता: अश्वा येनेति बहुव्रीहेरन्यपदार्थत्वात् प्रश्वशब्दो महिषशब्दस्यो-
पसर्जनीभूतो न स्वार्थोक्तो समर्थः । कथं, सापेक्षमसमर्थं स्यादिति न्यायात् । अत्र
हि हरितहरिग्रस्ताश्वो विवक्षितः । तच्च तदा प्रतीतिपथमवतरति यदा ग्रस्त-
हरिदश्वाश्व इति तद्विशेषणं प्रक्षिप्यते, "वाच्यात्प्रतीयमानोऽर्थः तद्विदां स्वदते-
sधिकमिति' वचनात् । अत्राश्वशब्दस्याऽन्य संबंधेन सूर्यसंबंधो न्यग्भावमाप्तः ।
केचित्पुनरनयो: पाठ्योरर्थस्य उत्कर्षापकर्षयोग्यत्वेनं न कश्चित्प्रतीतिभेद इति -
मन्वाना अनेन पथा संचरन्ते । ते इदं प्रष्टव्याः, कि सर्व्ववाफ्येषु उत्कर्षापकर्षसाम्यं उत
बहुव्रीहिसंबंन्धिन्येव, तत्र सर्व्ववाक्येषु सर्व्वसमासेषु प्रत्यक्षलक्ष्यः प्रतीतिभेदो ना-
sपलापं श्रर्हति । अथ बहुव्रीहि विषये एव तदयुक्त, यतः ग्रन्यत्र समास इव ज्ञात-
सामर्थ्य प्रतीतिभेदकारणे प्रधानोपसर्ज्जनभावे सति, अकस्मात्कारणेन विना न
तदभावो युक्तः । एवमप्यङ्गीक्रियमाणे विकलयामपि क्षित्यादिसामग्रयां अंकुरादि-
कायोत्पत्यभावाङ्गीकारोऽपि सुवचः प्रसज्येत, इति हेतोः सामग्री ह्यविकला कार्य
जनयत्येव, प्रतः सर्व्वेषु समासेषु प्रतीतिभेदोऽङ्गीकर्त्तव्यः । नैव वा कुत्रचित् न
पुनरिदमर्द्धजरतीयं लभ्यते, तिष्ठतु वादः । प्रधानोपसर्जनभावविषये यंत्र च
विध्यनुवादभावाभि धित्सया पदानि विरच्यन्ते तत्रापि विध्यनुवादभावेऽपि विधेय-
त्वादस्य प्राधान्येन समासेन निर्जीवीकरणम् । शत्र हरितहरित्वं प्रद्य
ग्रस्ताऽश्वत्वं विधीयते एवं विधेयानुद्यभावो वा प्रधानोपसर्जनभावो वाऽस्तु नात्र
}
*
*
:
2
.
❤