2023-03-13 20:41:08 by manu_css
This page has been fully proofread once and needs a second look.
व्यासंगात् पादतले लग्नं अणुतरं दर्भाग्रमात्रं न गणयति तथेति । अथवाऽयं विग्रहः
दर्भाग्रसूच्याः लघुः सुसूक्ष्मो भागः स इव न गणितः, अत्र गर्भशब्देन पादतलमध्यम्--
प्रसादादथवौचित्याद् देशकालविभागतः
शब्दैरर्था: प्रतीयन्ते न शब्दादेव केवलात् ।
इति न्यायमाश्रित्य व्याख्यातम् । पुनः किम्भूतः, पार्ष्णिनिर्यातसारः, निःशेषं
यातो निर्यातः, निर्यातः सारो यस्मादसौ निर्यातसारः, पार्ष्याशब निर्यातसार: पार्ष्णि-
निर्यातसारः । अत्र केचित् पार्ष्णिनिष्ठ्यूतसारमिति पाठान्तरेण व्याकुर्व्वन्ति,
एतदुक्तं भवति--लाघवात् चरणव्यावर्तनेन क्रमेणैवं कृतः--पूर्व्वमंगुष्ठाग्रेण
निरस्तः, तदनु तन्नखाग्रेण, ततः पादस्य मध्ये इति पादतलमध्यं आनीतः, पश्चात्
पार्ष्ण्या पिष्ट: । एवं च पार्ष्णिग्रहणे पश्चात्कर्त्तव्ये वृत्तानुरोधात् मध्येऽभाणि ।
अत्र च उपसर्प्पन्नित्यत्रोपशब्दो न समीपार्थे उक्तसमीपशब्दस्थाने हसंत्या इति
पाठं पठन्ति । तदभिप्राय:, अंगुष्ठाग्रनखशिखरे अतिक्रम्य शिक्षालाघवात् पाद-
तलं प्राप्तं दृष्ट्वा ईषद्धासं विधाय पार्ष्ण्या पीडित इत्यर्थः ॥७॥
सं० व्या०--७. निष्ठ्यूत इति ॥ सा शिवा शिवपत्नी वो युष्माकं शान्त्यै
शान्तये अस्तु भवतु, दैत्यानां अधीशो दैत्याधीश: महिषः समीपमुत्सर्पन् यया
शिवया पादस्य व्याहतत्त्वात् क्रमेणैवं कृतः, किंभूत इत्याह, पूर्वं तावत्
अङ्गुष्ठकोट्या निष्ठ्यूतः अङ्गुष्ठाग्रेण निरस्तः तदनु नखशिखरहतः तस्यैव तस्या
यो नखस्तस्य शिखरेण विभागेन हतस्ताडितः, तदनन्तरं च गर्भे पादमध्ये सूच्या
अग्रं अग्रसूची तस्यां लघुः स्तोकः अग्रसूचीलघुः दर्भाग्रसूचीलघुः स इव न
गणितः न मतः, अथो पार्ष्णिनिष्णातसार: पार्ष्ण्या पादपश्चिमभागेन निष्णातो
नितरां स्नातो मग्नः बलं यस्य स तथोक्तः निस्नाति इत्यनेन स्नात इति षत्वं,
गर्भे दर्भाग्रसूचीत्यादि पश्चात् पार्ष्णिनिष्णातसार इति पदे प्रयोक्तव्ये छन्दो-
वशात् पूर्वमेव प्रयुक्तमिति प्रष्टव्यं, इदानीं मामकीनोऽनेन पादोऽतिक्रान्त
इति भावेन हसन्त्या प्रहसितवदनया पादपातेन समग्रस्यैव पादस्य पातेन नाभौ
वक्त्रं प्रविष्टाकृतिविकृतिर्यस्य वक्त्रस्य तथाविधं कृत्वा पश्चाद्व्यापादित
इत्यर्थः ॥७॥
इदानीं महिषस्य सर्व्वजेतृत्वं तज्जयेन देव्याः सर्व्वोत्कृष्टत्वं च वर्णयन्नाह--
ग्रस्ताश्वः शष्पलोभादिव हरितहरेरप्रसोढानलोष्मा
स्थाणौ कण्डूं विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्त्ती ।
कृष्णं पङ्कं यथेच्छन् वरुणमुपगतो मज्जनायैव यस्याः
स्वस्थोऽभूत्पादमाप्त्वा ह्रदमिव महिषः साऽस्तु देवी मुदे वः[^१] ॥८॥
[^१] का०--दुर्गा श्रिये वः ।