This page has not been fully proofread.

पद्याङ्क ७-८ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ३३
 
व्यासंगात् पादतले लग्न प्रणुतरं दर्भाग्र मात्र न गणयति तथेति । अथवाऽयं विग्रहः
दर्भाग्रसूच्याः लघुः सुसूक्ष्मों भागः स इव न गणितः, प्रत्र गर्भशब्देन पादतलमध्यम्-
प्रसादादथवौचित्याद् देशकालविभागतः
शब्द रर्था: प्रतीयन्ते न शब्दादेव केवलात् ।
 
इति न्यायमाश्रित्य व्याख्यातम् । पुनः किम्भूतः पाणिनियतिसारः, निःशेषं
यातो निर्यातः, निर्यातः सारो यस्मादसौ निर्यातसारः, पार्ष्णया निर्यातसार: पाणि-
निर्यातसारः । अत्र केचित् पाणिनिष्ठ्यूतसारंमिति पाठान्तरेण व्याकुर्व्वन्ति,
एतदुक्तं भवति - लाघवात् चरणव्यावर्तनेनं क्रमेणैवं कृतः– पूर्व्वमंगुष्ठाण
निरस्तः, तदनु तन्नखाग्रेण, ततः पादस्य मध्ये इति पादतलमध्यं नीतः, पश्चात्
पार्ष्या पिष्ट: । एवं च पाणिग्रहणे पश्चात्कर्त्तव्ये वृत्तानुरोधात् मध्येऽभाणि ।
उपप्पन्नित्योपशब्दो न समीपार्थे उक्तसमीपशब्दस्थाने हसंत्या इति
पाठं पठन्ति । तदभिप्राय:, अंगुष्ठाग्र नखशिखरे अतिक्रम्य शिक्षालाघवात् पाद-
तलं प्राप्तं दृष्ट्वा ईषद्धासं विधाय पार्ष्या पीड़ित इत्यर्थः ॥७॥
 
सं० व्या० – ७. निष्ठच त इति ॥ सा शिवा शिवपत्नी वो युष्माकं शान्त्यै
शान्तये प्रस्तु भवतु, दैत्यांना अधीशो दैत्याधीश: महिषः समीपमुत्सर्पन् यया
शिवया पादस्य व्याहतत्त्वात् क्रमेणैवं कृतः, किंभूत इत्याह, पूर्वं तावत्
श्रङ्गुष्ठकोट्या निष्ठ्य तः अङ्गुष्ठाग्रेण निरस्तः तदनु नखशिखरहतः तस्यैव तस्या
यो नखस्तस्य शिखरेण विभागेन हतस्ताडितः, तदनन्तरं च गर्भे पादमध्ये सूच्या
सूची तस्यां लघुः स्तोकः अग्रसूचीलघुः दर्भाग्रसूचीलघुः स इवन
गणितः न मतः, अथो पाणिनिष्णातसार: पाष्णुंचा पादपश्चिमभागेन निष्णांतो
नितरां स्नातो मग्नः बलं यस्य स तथोक्तः निस्नाति इत्यनेन स्नात इति षत्वं,
गर्भे दर्भाग्रसूचीत्यादि पश्चात् पाणिनिष्णातसार इति पदे प्रयोक्तव्ये छन्दो-
वशात् पूर्वमेव प्रयुक्तमिति प्रष्टव्यं, इदानीं मामकीनोऽनेन पादोऽतिक्रान्त
इति भावेन हसन्त्या प्रहसितवदनया पादपातेन समग्रस्यैव पादस्य पातेन नाभौ
वक्त्रं प्रविष्टाकृतिविकृतियंस्य वक्त्रस्य तथाविधं कृत्वा पश्चाद्व्यापादित
इत्यर्थः ॥७॥
 
.
 
इदानीं महिषस्य सर्व्वजेतृत्वं तज्जयेन देव्याः सर्वोत्कृष्टत्वं च वर्णयन्नाह -
ग्रस्ताश्वः शप्पलोभादिव हरितहरेरप्रसोढा नलोष्मा
 
स्थागौ कण्डू' विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्त्ती ।
कृष्णं पङ्क' यथेच्छन् वरुणमुपगतो मज्जनायैव यस्याः
 
स्वस्थोऽभूत्पादमाप्त्वा हृदमिव महिषः सास्तु देवी मुद्दे वः ॥८॥
 
१ का० - दुर्गा श्रिये वः ।