2023-03-13 20:40:26 by manu_css
This page has been fully proofread once and needs a second look.
देव्याः पादोपशल्ये पादस्याश्रये त्रिदशपतिरिपुः महिषः प्रापत् प्राप्तवान् प्रतिष्ठां
स्थितिं, क्व नाके स्वर्गे अमररिपूणां दानवानां पतिरधिदेवत्वं प्राप्नोति यत्पाद-
वधप्रभावादित्यर्थः; किंभूतस्त्रिदशपतिरिपुः दूरदुष्टाशयोपि दूरमत्यर्थं दुष्ट
आशयश्चित्तं यस्य सः तादृशोऽपि अत एव विश्वोपकारिप्रकृतिरविकृतिर्देवीत्यर्थः, किं
कुर्वन् नाके प्रतिष्ठां प्राप; वादयन् मण्डलीं नूपुरस्य, किं कृत्त्वा हत्वा, कया कोट्या
शृंगस्य शृंगाग्रताभागेन, कथंभूता मण्डली नूपुरस्य रणितमणि: रणिता मणयो
यस्याः सा रणितमणिः तां तथोक्तां, कामिव केन वादयन् वीणामिव कोणेन वाद-
यन् दण्डेन, किमुक्तं भवति शृंगकोट्या हत्वा नूपुरमण्डलीं रणितवीणामिव
कलुषचित्ततया वादयत् महिषोऽबाधित्वात् नाके प्रतिष्ठां प्राप इति परमार्थः,
भावार्थस्तु यः किल देवीपादोपशल्ये वीणां वादयति स मृतः स्वर्गं प्राप्नोति ॥ ६॥
प्रथमश्लोके परमेश्वर्याः ब्रह्मस्वरूपत्वं निरूप्य साम्प्रतं पुनर्लौकिकव्यवहारो-
चितं वीर्यातिशयं निरूपयन्नाह--
निष्ठ्यूतोऽङ्गुष्ठकोट्या नखशिखरहतः पार्ष्णिनिर्यातसारो
गर्भे दर्भाग्रसूचीलघुरिव गणितो नोपसर्प्पन्समीपम् ।
नाभौ वक्त्रं प्रविष्टाकृतिविकृति यया पादपातेन कृत्वा
दैत्याधीशो विनाशं रणभुवि गमितः साऽस्तु शांत्यै शिवा वः ॥७॥
कुं० वृ०--सा शिवा कल्याणनिधानं वो युष्माकं शांत्यै शम-सुखायाऽस्तु भवतु
यया रणभुवि संग्रामभूमौ दैत्यानामधीशो महिषो विनाशं गमितः प्राणवियोजितः ।
किं कुर्व्वन्, समीपमुपसर्प्पन्, केन पादपातेन चरण [13a] प्रहारेण, किं कृत्वा, नाभौ
नाभिप्रदेशे वक्त्रं कृत्वा, किम्भूतं वक्त्रं, प्रविष्टाकृतिविकृति प्रविष्टा प्रवेशं इता
आकृतेः पूर्व्वाकारस्य विकृतिर्विकारो यस्मिन् तत् प्रविष्टाकृतिविकृति प्राप्ताकार-
वैपरीत्यं प्रविष्टग्रहणादिति ज्ञायते, तद्वक्त्रे विकारेण तदैव प्रवेशो लब्ध इति,
अन्यथा प्रविष्टग्रहणं व्यर्थं स्यात्, अधिकं सत्किंचिद् ज्ञापयतीति न्यायात् । प्रविष्ट-
ग्रहणस्य एतत्सामर्थ्यं अभिमुखागतस्य शिरसि पादाघातात् नीचैरधोमुखपतनवशात्
मुखं नाभिप्रदेशमागच्छतीति तस्यावेग: प्रहारस्यातिगुरुत्वं वा वर्णितम् । कथं
तदेव विवृण्नन्नाह, पूर्व्वं अंगुष्ठकोट्या अंगुष्ठाग्रभागेन निष्ठ्यूतो निरस्त:,
ष्ठीव् निरसने, भूते कर्म्मणि क्तः, छ्वोः शूडनुनासिकेति ऊडादेशः । पुन: किंविशिष्टः
नखशिखरहतः नखस्य शिखरं नखशिखरं तेन हतः । पुनः किम्भूतः, गर्भे पाद-
तलमध्ये दर्भाग्रसूचीलघुरिव न गणितः, दर्भस्य अग्रं दर्भाग्रं तदेव सूची इव
तद्वल्लघुः दर्भाग्रसूचीलघुः स इव न गणितः यः अति कठोरचरणः । कश्चित्कार्य-