This page has been fully proofread once and needs a second look.

३२ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६-७ व्याख्या
 
देव्याः पादोपशल्ये पादस्याश्रये त्रिदशपतिरिपुः महिषः प्रापत् प्राप्तवान् प्रतिष्ठां

स्थितितिं, क्व नाके स्वर्गे अमररिपूणां दानवानां पतिरधिदेवत्वं प्राप्नोति यत्पाद-

वधप्रभावादित्यर्थः; किंभूतस्त्रिदशपतिरिपुः दूरदुष्टाशयोपि दूरमत्यर्थं दुष्ट
प्रा

शयश्चित्तं यस्य सः तादृशोऽपि प्रत एव विश्वोपकारिप्रकृतिरविकृतिर्देवीत्यर्थः, कि
किं
कुर्वन् नाके प्रतिष्ठां प्राप; वादयन् मण्डलीं नूपुरस्य, किकिं कृत्त्वा हत्वा, कयांया कोट्या

शृंगस्य शृंगाग्रताभागेन, कथंभूता मण्डली नूपुरस्य रणितमणि: रणिता मणयो

यस्याः सा रणितमणिः तां तथोक्तां, कामिवं केन वादयन् वीणामिव कोणेन वाद-

यन् दण्डेन, किमुक्तं भवति शृंगकोट्या हत्वा नूपुरमण्डलीं रंणितवीणामिव

कलुषचित्ततया वादयत् महिषोsबाधित्वात् नाके प्रतिष्ठां प्रांराप इति परमार्थः,

भावार्थस्तु यः किल देवीपादोपशल्ये वीणां वादयति स मृतः स्वर्गं प्राप्नोति ॥ ६॥

 
प्रथमश्लोके परमेश्वर्याः ब्रह्मस्वरूपत्वं निरूप्य साम्प्रतं पुनर्लौ किकव्यवहारो-

चितं वीर्यातिशयं निरूपयन्नाह
-
 
-
 
निष्ठ्यूतोऽङ्गुष्ठकोट्या नखशिखरहतः पार्ष्णिनिर्यातसारो

गर्भे दर्भाग्रसूचीलघुरिव गणितो नोपसर्प्पन्समीपम् ।

नाभौ वक्त्रं प्रविष्टाकृतिविकृति यथाया पादपातेन कृत्वा

दैत्याधीशो विनाशं रणभुवि गमितः साऽस्तु शांत्यै शिवा वः ॥७॥
 
$
 
}
 

 
कुं० वृ० - -सा शिवा कल्याणनिधानं वो युष्माकं शांत्यै शमं म-सुखायाऽस्तु भवतु

यया रणभुवि संग्रामभूमौ दैत्यानामधीशो महिषो विनाशं गमितः प्राणवियोजितः ।
कि

किं
कुर्व्वन्, समीपमुपसर्प्पन्, केन पादपातेन चरण [[133a] प्रहारेण, किं कृत्वा, नाभौ

नाभिप्रदेशे वक्त्रं कृत्वा, किम्भूतं वक्त्रं, प्रविष्टाकृतिविकृति प्रविष्टा प्रवेशं इता
प्रा

कृतेः पूर्व्वाकारस्य विकृतिर्विकारो यस्मिन् तत् प्रविष्टाकृतिविकृति प्राप्ताकार-

वैपरीत्यं प्रविष्टग्रहणादिति ज्ञायते, तद्वक्त्रे विकारेण तदैव प्रवेशो लंव्लब्ध इति,

अन्यथा प्रविष्टग्रहणं व्यर्थं स्यात्, अधिकं सत्किकिंचिद् ज्ञापयतीति न्यायात् । प्रविष्ट-

ग्रहणस्य एतत्सामर्थ्यं अभिमुखागतस्य शिरसि पादाघातात् नीचैरधोमुखपतनवशात्

मुखं नाभिप्रदेश मागच्छतीति तस्यांयावेग: प्रहारस्यातिगुरुत्वं वा वर्णितम् । कथं

तदेव विवृण्न्नाह, पूठोर्व्वं अंगुष्ठकोट्या अंगुष्ठाग्रभागेन निष्ठ्यूतो निरस्त:,

ष्ठीव् निरसने, भूते कर्म्मणि क्तः, छ्वोः गूशूनुना सिकेति ऊडादेशः । पुन: किंविशिष्टः

नखशिखरहतः नखस्य शिखरं नखशिखरं तेन हृतः । पुनः किम्भूतः, गर्भे पाद-

तलमध्ये दर्भाग्र सूचोचीलघुरिव न गणितः, दर्भस्य प्रग्रं दर्भाग्रं तदेव सूची इव

तद्वल्लघुः दर्भाग्रसूचीलवुःघुः स इव न गणितः यः प्रति कठोरचरणः । कश्चित्कार्य-