2023-03-13 20:39:40 by manu_css
This page has been fully proofread once and needs a second look.
हेतु: समस्तजगतां त्रिगुणापि देवै-
र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाग्र(श्र)याऽखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ इति,
प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशक इत्यादि सप्तत्युक्तेश्च--
मैत्र्यादिचित्तपरिकर्म्मविदो विधाय,
क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्याति च सत्वपुरुषान्यतयाऽधिगम्य,
वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ॥ इति,
माद्यपि(?) पुनः किंविशिष्टा, अविकृतिर्न विद्यते विकारो यस्याः सा तथा, तादृ-
श्यपि व्यतिकरे विकारदर्शनात् यद् भगवत्या विश्वोपकारित्वं अविकारित्वं च
उक्तं च तदेव दृष्टान्तदार्ष्टान्तिकभावेन विशदयति । सा का यस्याः पादोपशल्ये
चरणसमीपे दूरदुष्टाशयोऽपि अत्यन्तदुष्टचित्तोऽपि त्रिदशरिपुपतिः त्रयोदशकाः
परिमाणमेषां ते त्रिदशाः, वा तिस्रो दशा वयोऽवस्था येषां त्रिदशाः, सर्व्वदा त्रिंशद्वर्षाः,
त्रिदशानां देवानां रिपव: त्रिदशरिपवस्तेषां पतिः स तथा; नाके स्वर्गे प्रतिष्ठां
स्थिति प्रापत् लेभे; किं कुर्व्वन् सन् अभिमुखः सन्, शृंगाग्रकोट्यां शृंगाग्रविभागेन
नूपुरस्य मंडलीं असकृत् वारं वारं हत्वा वादयन् सशब्दां कुर्व्वन्, किंभूतां मंडलीं
रणितमणिं रणिताः शब्दिता मणयो यस्यां सा तथा तां; कामिव, कोणेन वीणा-
मिव, कोणो वीणादिवादनमिति । एतदुक्तं भवति । दुष्टाशयोsपि महिष: रणा-
ऽजिरेऽभिमुखः सन् नूपुरमंडलदेशे प्रहरन्नपि स्वर्गमाप । एतच्च परमेश्वर्याः कृपालु-
त्वम् । अनु च रणेऽभिमुखस्य मृतस्य स्वर्गित्वम् । अनु च नूपुरमंडल्या वीणोपमानेन
पार्व्वत्याः पुरतः स्मृतिनोदितस्य वीणावादनस्य स्वर्गप्राप्तिहेतुत्वं च दर्शितम् ।
तथा च स्मरणं--
वीणावादनतत्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्गं निगच्छति । इति
वीणाया नूपुरमंडल्याश्चोपमानोपमेयभावादुपमालंकारः ॥६॥
सं० व्या०--६. शश्वदिति ॥ शिवा भवानी वो युष्माकं शश्वत् नित्यं
शान्तये अस्तु भवतु, किंविशिष्टा शश्वद्विश्वोपकारिप्रकृतिरविकृतिः विश्वस्य
जगत: उपकर्तुं शीलं यस्याः सा तथाविधा प्रकृति: स्वभावो यस्याः सा विश्वोप-
कारिप्रकृतिः, अविकृतिः न विद्यते विकृतिः विकारो यस्याः सा अविकृतिः, कथं
विश्वोपकारिप्रकृतिरविकृतिश्चेत् इति दर्शयन्नाह--'यस्याः पादोपशल्ये' इति; यस्याः