This page has not been fully proofread.

पद्याङ्क ६ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
हेतु: समस्तजगतां त्रिगुणापि देवै-
र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाग्र ( श्र ) या खिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ इति,
 
---
 
प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोड़शक इत्यादि सप्तत्युक्त इच-
मैग्यादिचित्तपरिकर्म्मविदो विधाय,
 
क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
 
ख्याति च सत्वपुरुषान्यतयांऽधिगम्य,
 
[ ३१
 
वाञ्छन्ति तामपि समाधिभृतो निरोद्धम् ॥ इति,
माद्यपि ( ? ) पुनः किविशिष्टा, ऋविकृतिर्न विद्यते विकारो यस्याः सा तथा, ताह-
श्यपि व्यतिकरे विकारदर्शनात् यद् भगवत्या विश्वोपकारित्वं अविकारित्वं च
उक्त च तदेव दृष्टान्तदान्तिकभावेन विशदयति । सा का यस्याः पादोपशल्ये
चरणसमीपे दूरदुष्टाशयोऽपि अत्यन्तदुष्ट चित्तोऽपि त्रिदशरिपुपतिः त्रयोदशकाः
परिमाणमेपां ते त्रिदशाः, वा तिस्रो दशा वयोऽवस्था येषां त्रिदशाः, सर्व्वदा त्रिंशद्वर्षाः,
त्रिदशानां देवानां रिपव: त्रिदशरिपवस्तेषां पतिः स तथा; नाके स्वर्गे प्रतिष्ठां
स्थिति प्रापत् लेभे; किं कुर्व्वन् सन् अभिमुखः सन् शृंगाकोटा शृंगाग्रविभागेन
नूपुरस्य मंडलीं असकृत् वारं वारं हत्वा वादयन् सशब्दां कुर्व्वन्, किंभूतां मंडली
रणितर्माण रणिताः शब्दिता मणयो यस्यां सा तथा तां; कामिव, कोणेन वीणा-
मित्र, कोणो वीणादिवानमिति । एतदुक्त भवति । दुष्टाशयोsपि महिष: रणा-
ऽजिरेऽभिमुखः सन् नूपुरमंडल देशे प्रहरन्नपि स्वर्गमाप । एतच्च परमेश्वर्याः कृपालु-
त्वम् । अनु च रणेऽभिमुखस्य मृतस्य स्वगित्वम् । अनु च नूपुरमंडल्या वीणोपमानेन
पार्व्वत्याः पुरतः स्मृतिनोदितस्य वीणावादनस्य स्वर्गप्राप्ति हेतुत्वं च दर्शितम् ।
तथा च स्मरणं.
 
वीणावादनतत्वज्ञः श्रुतिजातिविशारदः ।
 
तालज्ञश्चाप्रयासेन मोक्षमार्ग निगच्छति । इति
वीणाया नूपुरमंडल्याश्चोपमानोपमेयभावादुपमालंकारः ॥६॥
 
सं० व्या० - ६. शश्वदिति ॥ शिवा भवानी वो युष्माकं शश्वत् नित्यं
 
'
 
: "शान्तये प्रस्तु भवतु किविशिष्टा शश्वद्विश्वोपकारिप्रकृतिरविकृतिः विश्वस्य
जगत: उपकतु शीलं यस्याः सा तथाविधा प्रकृति: स्वभावो यस्याः सा विश्वोप-
कारिप्रकृतिः, अविकृतिः न विद्यते विकृतिः विकारो यस्याः सा अविकृतिः कथं
विश्वोपकारिप्रकृति र विकृतिश्चेत् इति दर्शयन्नाह - 'यस्याः पादोपशल्ये' इति; यस्याः
 
J