2023-03-13 20:38:17 by manu_css
This page has been fully proofread once and needs a second look.
पूरश्च लीलाकुवलयकलिकाकर्णपूरः, तस्य आदरस्तेन भ्रान्तिसमुत्थया श्रद्धयेति
यावत् । कस्यां सत्यां व्यक्तिकरविरतौ, व्यतिकर: संग्राम: तस्य विरतिर्विरामो-
ऽवसानमिति यावत् तस्याम् । अत्र कलिकैव कर्णपूरः इति रूपकालङ्कारः । अन्यच्च,
कुवलयकर्णपूर इत्येवं सिद्धे कलिकाग्रहणं व्यर्थम् । कलिका चासौ कर्णपूरश्चेति
लिंगानौचिती च मातुर्ग्रहणमंस्थाननिक्षिप्तमिति । अस्थानस्थपदाख्यो दोषश्चापि
मातुः कर्णपूर इति अर्थादेवाक्षिप्यते, महिषस्य कर्णपूराभावात् । मातृप्रभ्रष्ट-
लीलेति पाठेन भवितव्यम् । तथा च, महाकवीनां रहस्यम्--
यतः समासो वृत्तं च वृत्तयः काकवस्तथा ।
वाचिकाभिनयात्मत्वाद्रसाभिव्यक्तिहेतवः ॥
तथा--
तस्माद्भिन्नपदार्थानां संबंधश्चेत्परस्परः ।
न विच्छेदान्तरां कार्यो रसभंङ्गकरो हि सः ॥
इति विस्तरभीत्योपरम्यते । किंविशिष्टां शृंगस्य कोटिं, दर्प्पात् गर्व्वात्
प्रहारे दत्ते सति, अर्थाच्चरणस्यैव सपदि तत्कालं पदभरोत्पिष्टदे[12a ]हावशिष्टां,
पदस्य भरः पदभरः गुरुत्वं तेन उत्पिष्टश्चूर्णीकृत: स चासौ देहश्च तस्मात्
अवशिष्टा शेषा या सा तां; पुनः किंविशिष्टां, नूपुरग्रंथिसीम्नि श्लिष्टां नूपुरस्य
ग्रंथि: नूपुरग्रंथि: तस्य सीमा संधिः तस्यां नूपुरग्रन्थिसीम्नि लग्नां, तदयं
वाक्यार्थः संपन्नः । रणरसिकत्वेन शृंगाग्रेण नूपुरमुच्छेत्तुमिच्छोर्महिषस्य रोषात्
पादप्रहारेण देहस्तथा वज्रनिष्पेषपिष्टो यथा नूपुरे लग्नशृंगाग्रमात्रावृते
महिषस्य न किंचिदवशिष्टं, अणुमात्रमपि दृश्यं नाभूत् । एवं सति स्वस्थां
परमेश्वरीमालोक्य लीलाकुवलयकलिकाभ्रांत्या नूपुरग्रंथिसीम्नि लग्नां शृंगकोटि-
माददानः कुमारो वः पायादिति । अत्र महिषश्चासौ सुररिपुश्चेति महिषस्य
सुररिपुरिति विशेषणं विशेष्येण बहुलमिति सूत्रार्थपर्यालोचनया समासस्यासिद्ध-
त्वात् कथं कविना कृत इति तदभिप्रायमवगच्छद्भिर्विपश्चिद्भिः समास-
श्चिन्तनीयः । तादृशि व्यतिकरेऽपि स्वास्थ्यादतिशयोक्तिः । कुवलयकलिकायाः
शृंगकोटिरुपमानोपमेयभावो व्यङ्ग्यः । वा शृंगकोटि: कुवलयकलिकायै
उत्प्रेक्ष्यते तामपेक्ष्य भ्रांतिमतः प्रादुर्भावः तस्यैवात्र प्राधान्यं अपि च वीरसमुपक्रम्य-
शृंगारस्य प्रवृत्तिरिति कृत्वा तदाभासा अनौचित्यप्रवर्तिता इति रसाभासोऽव-
गन्तव्यः । उत्साहक्रोधयोः शांतिरपि यद्यपि वीरशृंगारयोः संकरो न विरुद्धः,
तथापि परिपोषं न नेतव्यः इत्यावेदितं प्राक् दर्प्पादिति च यत् स्वपदेनोपादानं
तदपि न सामंजस्यमारोहतीत्यलं प्राकृतजनमात्रस्य मम महाकविप्रयोग-
विचारेणेति । अत्र शब्दचित्रमेवालंकारतया व्यवस्थापनीयं किं बहुना ॥५॥