This page has been fully proofread once and needs a second look.

पद्याङ्क ५ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ २६
 
1.
 
1
 
पूरश्च लीलाकुवलयकलिका कर्णपूरः तस्य प्रा, तस्य आदरस्तेन भ्रान्तिसमुत्थंया श्रद्धयेति

यावत् । कस्यां सत्यां व्यक्तिकरविरतोतौ, व्यतिकर: संग्राम: तस्य विरति र्विरामो-

ऽवसानमिति यावत् तस्याम् । अत्र कलिकैव कर्णपूरः इति रूपकालङ्कारः । अन्यच्च,

कुवलय कर्णपूर इत्येवं सिद्धे कलिकाग्रहणं व्यर्थम् । कलिका चासौ कर्णपूरश्चेति

लिंगानौचिती च मातुर्ग्रहणमंस्थान निक्षिप्त मिति । प्रस्थानस्थपदाख्यो दोषश्चापि

मातुः कर्णपूर इति अर्थादेवाक्षिप्यते, महिषस्य कर्णपूराभावात् । मातृप्रभ्रष्ट
-
लीलेति पाठेन भवितव्यम् । तथा च, महाकवीनां रहस्यम् -
 
-
 

 
यतः समासो वृत्तं च वृत्तयः काकवस्तथा ।

वाचिकांकाभिनयात्मत्वाद्रस। साभिव्यक्तिहेतवः ॥
 

 
तथा-
.
 
-
 
तस्माद्भिन्नपदार्थानां संबंधश्चेत्परस्परः ।

न विच्छेदान्तरां कार्यो रसभंङ्गकरो हि सः ॥
 
2
 
C
 

 
इति विस्तरभोभीत्योपरम्यते । किकिंविशिष्टां शृंगस्य कोटिटिं, दर्प्पात् गर्व्वात्

प्रहारे दत्ते सति, अर्थाच्चरणस्यैव सपदि तत्कालं पदभरोत्पिष्टदे [12a ] हावशिष्टां,

पदस्य भरः पदभरः गुरुत्वं तेन उत्पिष्टश्चूर्णीकृत: स चासोसौ देहश्च तस्मात्

अवशिष्टा शेषा या सा तां; पुनः किकिंविशिष्टां, नूपुरग्रंथिसीम्नि श्लिष्टां नूपुरस्य

ग्रंथि: नूपुरग्रंथि: तस्य सीमा संधिः
तस्यां नूपुरग्रन्थिसीम्नि लग्नां, तदयं
वाक्यार्थः संपन्नः । रणरसिकत्वेन शृंगाग्रेण
 
तस्यां नूपुरग्रन्थिसीम्नि लग्नां, तदयं
 
नूपुरमुच्छेत्तुमिच्छोमँर्महिषस्य रोषात्
 

पादप्रहारेण देहस्तथा वज्रनिष्पेष पिष्टो
 
यथा नूपुरे - लग्नशृंगात्ग्रमात्रावृते
 
*
 

महिषस्य न किंचिदवशिष्टं श्र, अणुमात्रमपि दृश्यं नाभूत् । एवं सति स्वस्थां

परमेश्वरीमालोक्य लीलाकुवलयकलिका भ्रांत्या नूपुरग्रंथिसीम्नि लग्नां शृंगकोटि-

माददानः कुमारो वः पायादिति । अत्र महिषश्चासौ सुररिपुश्चेति महिषस्य

सुररिपुरिति विशेषणं विशेष्येण बहुलमिति सूत्रार्थपर्यालोचनया समासस्यासिद्ध-

त्वात् कथं कविना कृत इति तदभिप्रायमवगच्छद्भिः भिर्विपश्चिद्भिः समास-

श्चिन्तनीयः । तादृशि व्यतिकरेऽपि स्वास्थ्यादतिशयोक्तिः । कुवलयकलिकायाः

शृंगको टिरुपमानोपमेयभावो व्यङ्ग्यः । वा शृंगकोटि: कुवलयकलिकायै

उत्प्रेक्ष्यते तामपेक्ष्य भ्रांतिमतः प्रादुर्भावः तस्यैवात्रं प्राधान्यं अपि च वीरसमुपक्रम्य-

शृंगारस्य प्रवृत्तिरिति कृत्वा तदाभासा अनौचित्यप्रवत्र्तिता इति रसाभासोऽव-

गन्तव्यः । उत्साहक्रोधयोः शांतिरपि यद्यपि वीरशृंगारयोः संकरो न विरुद्धः,

तथापि परिपोषं न नेतव्यः इत्यावेदितं प्राक् दर्प्पादिति च यत् स्वपदेनोपादानं

तदपि न
सामंजस्यमारोहतीत्यलं प्राकृतजनमात्रस्य मम महाकविप्रयोग-

विचारेणेति । अत्र शब्दचित्रमेवालंकारतया व्यवस्थापनीयं किं बहुना ॥५॥
 
"
 
;
 
X
 
.
 
.
 
+2