This page has not been fully proofread.

२८ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ४-५ व्याख्या
 
विशिष्टा रक्तधाराः, देवी त्रिशूलाहतमहिषजुषो देव्या स्त्रिशूलं देवीत्रिशूलं तेनाहतः
स चासौ महिषश्च तं जुषन्ते सेवन्ते इति देवोत्रिशूलाहतमहिषजुष: देवी त्रिशूल-
कृतछिद्रवाहिन्यो महिषस्य लग्नास्तिस्रो रक्तधारा रुधिरधारा इत्यर्थः, कि क्रिय
माणास्ता:, देवी ( वै:) इत्यूह्यमानाः वितर्क्यमानाः कथमिति तदुच्यते याम्यास्तुल्य-
मित्यादि, यमस्य मृत्योः कि ( यन्ति ? ) तिस्रो जिह्वाः निःसृताः निर्गताः श्रर्थान्मुख
कुहरादिति, नु इति वितर्के किं तु ग्रसितमतुलस्त्रिलोकों त्रैलोक्यं अतिरसात्
अतिरागात् तुल्यमेककालं मृत्योः जिह्वात्रयं सम्भवत्येव देवानां कामरूपत्वादिति
प्रदोषः, कि वा अथवा पदव्य स्तिस्रस्त्रयो मार्गाः, किंभूता: पदव्यः, विष्णुपद्याः
विष्णुपदं शुदृश्य मिति त्रिगृह्यपदमस्मिन् दृश्यमिति तद्विष्णोर्यत्, पुनरपि कि..
विशिष्टा: पदव्य : अरुणिता: अरुणीकृताः, काभिः कृष्णा ङ्घ्रिपद्मद्युतिभि: हेतु-
भूताभिः, स्मरारे: कामशत्रोः शङ्करस्योत अथवा तिस्रः संध्या: प्राप्ताः स्वयमेव
नुतिभि: सुभिः ( स्तुतिभिः) इत्यर्थः ॥४॥ -
 
पूर्वस्मिन् पद्ये त्रिशूलेन महिषहननमनुचितमभिमन्यमानः पादस्यैव तद्धनन-
सामर्थ्य दर्शना
 
दत्तं दत्हारे सपदि पदभरोत्पिष्टदेहाऽवशिष्टां
 
श्लिष्टां शृंगस्य कोटिं महिषासुर रिपोनू पुरग्र थिसीम्नि ।
मुण्याद्वः कल्मषाणि व्यतिकरविरतावाददानः कुमारो
 
१.
 
मातुः प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण ॥ ५ ॥
 
कुं. वृ. – कुमारः कार्तिकेयो वो युष्माकं कल्मषाणि पापानि मुष्यात् अपहरतु,
नाशं नयतु । श्रत्र कुमारः कल्मषाणि मुष्यादित्यनेन कुमारस्य महिषशृंगकोटिग्रहण -
व्याजेन देवीकर्णपूरकुवलय कलिकादानकर्तृत्त्वाभ्युपगमे भगवत्या तावता कालेन
महिषो व्यापादितः यावता सविघे स्थितेनापि कुमारेण तावान् व्यतिकर एक न
ज्ञातः । क्षणादेव ध्वस्त इति परमेश्वर्याः सकलसमर रसिकवीर शौर्यशौण्डीर्याति
शायिप्रयासराहित्यं भक्तानां पापं मुष्यादिति व्यज्यते इति कविप्रौढोक्तिमात्र-
निष्पन्नशरीरः किम्भूतः कुमार, महिषस्य शृगकोटि शृंगाग्रभागं आददान:
गृह्णन्, केन मातुः पार्व्वत्याः प्रभ्रष्टलीलाकुवलयकलिका कर्णपूर भ्रमेण, कुवलयस्य
कलिका कुवलयकलिका, लीलायै कुवलयकलिका लीलाकुवलयकलिका सा चासौ कर्ण.
 
**
 
.
 
..
 
.:
 
.
 
".
 
१. ज० का० कित्रिपारिग ।
 
२. शुण्डा गर्यो अस्ति प्रस्य ईरन्, स्वार्थे प्रण गर्वान्विते (त्रिकाण्डशेष धनञ्जये च)