2023-03-13 20:36:52 by manu_css
This page has been fully proofread once and needs a second look.
नियामकतो नोत्सर्गप्रवृत्तिरिति, एतावान् चेत् बहुलग्रहणस्य महिमा तर्हि शास्त्रा-
दावेव बहुलग्रहणं कर्त्तव्यम् । येन सामान्यविशेषरूपशास्त्रनिरूपणनिरपेक्षावेव विधि-
निषेधौ स्याताम् । इत्यत्र तु प्रधानेतरभावपरिकल्पनेन समासो न कर्त्तव्य इति नियमः
सिद्य्बति । आचार्येणापि 'समर्थः पदविधिरि’ति परिभाषायां कुर्व्वताऽयमेव पक्षः
कक्षीकृतः । एतस्य एव अयं प्रपञ्चः, व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायात् ।
अत्रार्थे श्लोकौ--
विधेयोद्दिश्य भावोऽयं वक्तुं वृत्या न पार्यते ।
यत्नेनाऽनभिधानं वा समर्थग्रहणं च वा ॥
कारणद्वयमेवेष्टं बहुलग्रहणं न तु ।
अशक्यनियमो ह्यर्थो विषयस्तस्य नेतरः ॥ इति,
तथा चोक्तं--
प्रकरणकक्वा सखो(द्यो) यस्यार्थोऽर्थान्तरं प्रकाशयति ।
इष्टार्थभंगभीतेः शब्दो न समासमर्हति ॥
सरति एवं स्थिते यदेतदिह पद्ये देवीत्रिशूलमिति, रक्तधारा इति च उदा-
हरणद्वयेऽपि विचार्यते । केवलधाराग्रहणे धारामात्रप्रतीतिः । रक्तग्रहणे तु
तत्संबंधोऽपीति तदसंबंधव्यावृत्तिश्च प्रतीयते । उत देवीसंबंधेन त्रिशूलस्य
माहात्म्यातिशयो रक्तसंबंधेन धाराणां रौद्रत्वातिरेकश्च । तत्र देवीसंबंधमात्रे
प्रतीते तस्याऽन्यशूल इव प्रभावातिशयो निर्निबंधन: स्यात् । महेशादित्रिशूलेभ्यो
वा स्वतंत्रेभ्यो व्यावृत्तस्य देवीकर्तृकं कमप्युपकारं अनासादयतो रक्तकर्तृकं वा ।
तथा माहात्म्यं वा न संभाव्यते रक्तस्य धारेति कर्त्तरि षष्ठी देवीसंबंधेन
माहात्म्यं देव्या रक्तस्य च विशेषणभूत [11b]यो: तदतिरेकपरिपोषपर्यवसायि-
माहात्म्यातिशयाधाननिबंधनभावेन विधेयतया प्राधान्येन विवक्षितत्वात् न भवित-
व्यमेव समासेन, समासे वाऽस्य विध्यनुवादभावस्य निमज्जनादिति, तथा च
महिमा--
यत्रोत्कर्षापकर्षौ वा विशेष्यस्य विशेषणात् ।
तदेव वा विधेयं स्यात् समासस्तत्र नेष्यते ।
अन्यत्र त्वर्थसंबंधमत्रैव वक्तुमभीप्सिते
कामचारस्तदर्थं हि समर्थग्रहणं कृतम् ।
न तु सापेक्षताद्यन्यदोषजापि निवृत्तये ।
विधेयत्वे सति समासनिवृत्तय इति शेषः । एवं सति देवैः शूलेन देव्याहत-
महिषजुषोऽस्रस्य धारा जयंतीति युक्तः पाठः ॥४॥
सं० व्या०--४. मृत्योस्तुल्य मिति ॥ रक्तस्य धारा रक्तधाराः जयन्ति, किं-