This page has been fully proofread once and needs a second look.

पद्याङ्क
 
४ व्याख्या । मेदपाटेश्वर कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ २७
 
नियामकतो नोत्सर्गप्रवृत्तिरिति, एतावान् चेत् बहुलग्रहणस्य महिमा तर्हि शास्त्रा-

दावेव बहुलग्रहणं कर्त्तव्यम् । येन सामान्य विशेषरूपशास्त्र निरूपणनिरपेक्षा वेव विधि-

निषेधीधौ स्याताम् । इत्यत्र तु प्रधानेतरभावपरिकल्पनेन समासो न कर्त्तव्य इति नियमः

सिद्धयति । प्राय्बति । आचार्येणापि 'समर्थ :थः पदविधिरिति परिभाषायां कुर्व्वताज्यमेव पक्षः

कक्षीकृतः । एतस्य एव अयं प्रपञ्चः, व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायात् ।

अत्रार्थे श्लोको--
?
 
कौ--
 
विधेयोद्दिश्य भावोऽयं वक्तुं वृत्या न पार्यते ।
 

यत्नेनाऽनभिधानं वा समर्थग्रहणं
 
च वा ॥
कारणद्वयमेवेष्टं बहुलग्रहणं न तु ।
 

अशक्यनियमो ह्यर्थो विषयस्तस्य नेतरः ॥ इति,
 

 
तथा चोक्त -
 
.
 
च वा।
 
तं--
 
प्रकरणकक्वा सखो (द्यो) यस्यार्थोऽर्थान्तरं प्रकाशयति ।

इष्टार्थभंगभीतेः शब्दो न समासमर्हति
 

 
सरति एवं स्थिते यदेतदिह पद्ये देवी त्रिशूल मिति, रक्तधारा इति च उदा-

हरणद्वयेऽपि विचार्यते । केवलधाराग्रहणे धारामात्रप्रेतीतिः । रक्तग्रहणे तु

तत्संबंधोऽपीति तदसंबंधव्यावृत्तिश्च प्रतीयते । उत देवीसंबंधेन त्रिशूलस्य

माहात्म्यातिशयो रक्तसंबंधेन धाराणां रौद्रत्वातिरेकश्च । तत्र देवीसंबंधमात्रे

प्रतीते तस्याऽत्न्यशूल इव प्रभावातिशयो निर्निबंधन: स्यात् । महेशादित्रिशूलेभ्यो

वा स्वतंत्रेभ्यो व्यावृत्तस्य देवीकर्तृ कं कमप्युपकारं अनासादयतो रक्तकर्तृ कं वा ।

तथा माहात्म्यं वा न संभाव्यते रक्तस्य धारेति कर्त्तरि षष्ठी देवीसंबंधेन

माहात्म्यं देव्या रक्तस्य च विशेषणभूत [ri11b]यो: तदतिरेकपरिपोषपर्यवसायि
-
माहात्म्यातिशयाधाननिबंधनभावेन विधेयतया प्राधान्येनं विवक्षितत्वात् न भवित-

व्यमेव समासेन, समासे वाऽस्य विध्यनुवादभावस्य निमज्जनादिति, तथा च

महिमा -
 
'
--
 
यत्रोत्कर्षापकर्षौ वा विशेष्यस्य विशेषणात् ।

तदेव वा विधेयं स्यात् समासस्तत्र नेष्यते ।

अन्यत्र त्वर्थसंबंधमत्रैव वक्तुमभीप्सिते

कामचारस्तदर्थं हि समर्थग्रहणं कृतम् ।

न तु सापेक्षताद्यन्यदोषजापि निवृत्तये ।

 
विधेयत्वे सति समासनिवृत्तय इति शेषः । एवं सति देवैः शूलेन देव्याहत-

महिषंजुषोऽस्रस्य धारा जयंतीति युक्तः पाठः ॥४॥
 

 
सं० व्या - --४. मृत्योस्तुल्य मिति ॥ रक्तस्य धारा रक्तधाराः जयन्ति, कि
 
किं-