This page has been fully proofread once and needs a second look.

२६ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क ४ व्याख्या
 
:
 
केसरिणश्च कश्चिदन्योन्यं विरोधमवगच्छति । अनयोश्च विशेषणत्व विधेयत्वयोः

सत्यासत्ययोः फलभेदो निर्विवाद: । विशेषणस्य सकलंजगद्गम्यं शब्दो हि साध्य-

त्वेन प्रयोजनं, येषां इदं विशेषणं समर्थं समासायेत्येव लक्षणं प्रवर्त्तयन्ति ये प्रवृत्ते

च लक्षणे समासे जाते पूर्वोत्तरपदार्थयोः संबन्धमात्रं प्रतीयन्ते । यतस्तदेव फलं

व्ययस्य ( यद्यस्यं ) तु कतिपयसहृदयसंवेदनीयो विषयः । कालिदासादिसत्कविगोचरः

प्रयोगविषयः वाक्यार्थस्य संन्धस्य चमत्कार विशेष: । 'फलं राजपुरुष' इत्युक्
ते
राजसंबन्धमात्रं प्रतीयते, राज्ञः पुरुष इत्युक्ते उपसर्जनीभूतस्यापि प्रधान विवक्षया

राजगताऽधृष्यत्वादिसंबंधातिशय :यः सहृदयानामुल्लसति । तथात्र काव्यमीमांसिषु

प्राप्तमहिमा महिमा यदवीवदत् -
 

 
-
 
विनोत्कर्षापकर्षाभ्यां स्वदंतेऽर्याग्थान्न जातुचित् ।
 
पर्युपासते ॥१॥
 

तदर्थमेव कवयोsलङ्कारान्
 
.
 
तो
 
पर्युपासते ॥१॥
 
तौ
विधेयानुवाद्यत्व विवक्षंक
विवक्षैकनिबंधनो ।
 
नौ ।
सा
 
समासे समायातीत्यसकृत्प्रतिपादितम् ॥२॥

 
अत एवं हि वैदर्भी रीतिरेकेचकैव शस्यते ।

यतः समाससंस्पर्शस्तत्र नैवोपपद्यते ॥

 
संबंधमात्रमर्थानां समासो ह्यवबोधयेत् ।

नोत्कर्षमपकर्षं[11a] वा वाक्यात्तूभयमप्यदः ॥ ४॥ इति
 
.
 

 
अत्र प्राचार्यः पाणिनिरपि 'वृषल्यायाः कामुक' इत्यत्र कामुकादिगताक्रोशप्रति

पत्तये समासेपि सति विभक्तोतौ सत्यामेवोत्कर्षापकर्षोषौ ज्ञायेते नान्यथा चमत्कारा-

तिशय इत्येवमर्थं प्रकटयन् 'षष्ठ्या आक्रोशे' इति अलुकं प्रणीतवान् । एवं सति

'पुत्रेऽन्यतरस्या 'मिति सोऽपि यदसूत्रयत्, यच्च लुकूक्पक्षे तत्स्वरूपमात्रपर मितिः

अश्मादिगोचरः परं सूत्रारम्भप्रयोजनं स एव जानाति । ननु प्राचार्येण पाणिनिनां
ना
एव समासरूपाऽनिष्टनिवृत्तये समासविधाने 'विशेषणं विशेष्येण <error>बहुलमिति’ति</error><fix>बहुलम्’इति</fix> बहुल-

ग्रहणं कुर्व्वता सर्वं निरधारि । तत्कृतमेतेन प्रधानत्वाप्रधानत्वनिरूपणेन मैवं

वोचः समासस्य विधेः । अनुच, प्रधानत्वाप्रधानहेतोः प्रतिषेधस्योत्सर्गापवाद-

त्त्वात् येषु समासेषु विभाषाग्रहणं तत्र विकल्पः, यत्र च नित्यग्रहणं तेषु तथा

एवं च बहुलग्रहणस्य क्वचित् प्रवृत्तिरिति प्रदर्शितपक्षचतुष्टये विकल्परूपः

पक्षो न भवति, व्यवस्थानियमाभावात् । व्यवस्थितत्त्वेऽपि पदव्यवस्थैव वा अर्थ-

व्यवस्थैव वा उभयथाऽपि पक्षत्रयवैयर्थ्यम् । तथा च विभाषाग्रहणेनैव सिद्धं सिद्धे

च बहुलग्रहणं कृतं, अन्यतरपक्षपरिग्रहणं निराकृत्य एकैकत्र पक्षचतुष्टयं परि-

गृह्णाति । तत्परिग्रहे तु अनैयत्यमेव तच्चानियतं कथं नियामकं स्यात् ? अपवादस्तु