This page has not been fully proofread.

२६ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क ४ व्याख्या
 
:
 
केसरिणश्च कश्चिदन्योन्यं विरोधमवगच्छति । यो विशेषणत्व विधेयत्वयोः
सत्यासत्ययोः फलभेदो निर्विवाद: । विशेषणस्य सकलंजगद्गम्यं शब्दो हि साध्य-
त्वेन प्रयोजनं, येषां इदं विशेषणं समर्थ समासायेत्येव लक्षणं प्रवर्त्तयन्ति ये प्रवृत्ते
च लक्षणे समासे जाते पूर्वोत्तरपदार्थयोः संबन्धमात्रं प्रतीयन्ते । यतस्तदेव फलं
व्ययस्य ( यद्यस्यं ) तु कतिपयसहृदयसंवेदनीयो विषयः । कालिदासादिसत्कविगोचरः
प्रयोगविषयः वाक्यार्थस्य संवन्धस्य चमत्कार विशेष: । 'फलं राजपुरुष' इत्युक्त
राजसंबन्धमात्रं प्रतीयते, राज्ञः पुरुष इत्युक्त उपसर्जनीभूतस्यापि प्रधान विवक्षया
राजगताऽधृष्यत्वादिसंबंधातिशय : सहृदयानामुल्लसति । तथात्र काव्यमीमांसिषु
प्राप्तमहिमा महिमा यदवीवदत् -
 

 
विनोत्कर्षापकर्षाभ्यां स्वदंतेऽर्याग्न जातुचित् ।
 
पर्युपासते ॥१॥
 
तदर्थमेव कवयोsलङ्कारान्
 
.
 
तो
 
विधेयानुवाद्यत्व विवक्षंक
निबंधनो ।
 
सा
 
समासे समायातीत्यसकृत्प्रतिपादितम् ॥२॥
अत एवं हि वैदर्भी रीतिरेकेच शस्यते ।
यतः समाससंस्पर्शस्तत्र नैवोपपद्यते ॥ ३ ।
संबंधमात्रमर्थानां समासो ह्यवबोधयेत् ।
नोत्कर्षमपकर्षं[11a] वा वाक्यात्तूभयमप्यदः ॥ ४॥ इति
 
.
 
अत्र प्राचार्यः पाणिनिरपि 'वृषल्या कामुक' इत्यत्र कामुकादिगताक्रोशप्रति
पत्तये समासेपि सति विभक्तो सत्यामेवोत्कर्षापकर्षो ज्ञायेते नान्यथा चमत्कारा-
तिशय इत्येवमर्थं प्रकटयन् 'षष्ठ्या आक्रोशे' इति अलुकं प्रणीतवान् । एवं सति
'पुत्रेऽन्यतरस्या 'मिति सोऽपि यदसूत्रयत्, यच्च लुकूपक्षे तत्स्वरूपमात्रपर मितिः
अश्मादिगोचरः परं सूत्रारम्भप्रयोजनं स एव जानाति । ननु प्राचार्येण पाणिनिनां
एव समासरूपाऽनिष्टनिवृत्तये समासविधाने 'विशेषणं विशेष्येण बहुलमिति बहुल-
ग्रहणं कुर्व्वता सर्वं निरधारि । तत्कृतमेतेन प्रधानत्वाप्रधानत्वनिरूपणेन मैवं
वोचः समासस्य विधेः । अनुच, प्रधानत्वाप्रधानहेतोः प्रतिषेधस्योत्सर्गापवाद-
त्त्वात् येषु समासेषु विभाषाग्रहणं तत्र विकल्पः, यत्र च नित्यग्रहणं तेषु तथा
एवं च बहुलग्रहणस्य क्वचित् प्रवृत्तिरिति प्रदर्शितपक्षचतुष्टये विकल्परूपः
पक्षो न भवति, व्यवस्थानियमाभावात् । व्यवस्थितत्त्वेऽपि पदव्यवस्थैव वा अर्थ-
व्यवस्थैव वा उभयथाऽपि पक्षत्रयवैयर्थ्यम् । तथा च विभाषाग्रहणेनैव सिद्धं सिद्धे
च बहुलग्रहणं कृतं, अन्यतरपक्षपरिग्रहणं निराकृत्य एकैकत्र पक्षचतुष्टयं परि-
गृह्णाति । तत्परिग्रहे तु अनैयत्यमेव तच्चानियतं कथं नियामकं स्यात् ? अपवादस्तु