2023-02-24 17:17:30 by ambuda-bot
This page has not been fully proofread.
"
पद्याङ्क ४ व्याख्या ]
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम
:
.
विगृहीतस्य पूर्वपदत्वं समानाधिकरणत्वं च तादृशस्याऽश्वशब्देन "नञ्" इत्यनेन
सूत्रेण समासः । यद्यपि विशेषणसूत्रेणैव समासः सिद्धघति तथापि 'अव्ययं विभक्ती' ति
नियमात् न सिद्धयति इति सूत्रारम्भः । व्यधिकरणविशेषणविशेष्यभावः कर्मा-
दीना कारकाणां स्वस्वामिरूपस्य सम्बन्धस्य वैयधिकरणत्वेपि व्यावर्त्तकत्वाद्
बहुप्रकारस्य तत्पुरुषस्य पन्थाः । यद्यपि कर्मधारयोऽपि तत्पुरुषविशेष एव तथा-
प्युपयुक्त विशिष्टतत्पुरुषविषयमेतद्वचनं व्यधिकरणेऽपि यदा अव्ययार्थस्य
विशेषणत्वम् । उपकुम्भमित्यत्रो पशब्द समीपवाचिनोऽव्ययस्य कुम्भेन पदादिभ्यो
व्यावर्त्तनीयत्वाद् विशेष्यता कुम्भस्य तु विशेषणत्वं, उपशब्दस्यं तु उपसर्जनत्वं
पूर्वनिपातार्थ पारिभाषिक न तात्विकं; तात्विकं तु कुम्भपदस्यैव, द्वन्द्वे तु विशेषण-
विशेष्यभाव एवं नास्ति, सर्वेषां समासपदानामितव्यावर्त्तकृत्वाभावात् तस्मादेव
युक्तन प्रकारेण कर्मधारयादीनां समासानां द्वन्द्वविरहितानां विशेषणांशः पूर्व-
पदार्थः । अध्ययो[10b] भावे चोत्तरपदार्थः, तद्विपरीतश्च विशेषांश: तदुभयपदस्य
प्रतिपादकत्वे स्थिते यदि विशेषणांशः स्वाश्रयस्य विशेष्यं सस्योत्कर्षापणद्वाराद्
वाक्यार्थं च, नमस्कारो विशिष्टार्थलाभात् चित्तस्योल्लासः स च चित्तधर्मो रसा-
विर्भावहेतुः । तस्य कारणत्वं तेनैवाप्रधानस्यापि प्रधानत्वेन विवक्षा, न तु तत्वं
तस्याविषयीभूतो विधेयधुरां प्राप्नुयात् । विशेष्यांशस्तु अनूद्यं सदृशत्वेन न्यग्भाव-.
मिव न तु उपसर्ज्जनत्वमेव प्राप्नोति । तदासी विशेषणांशो न समासस्य विषयो
लक्षणप्राप्तिरस्तीत्येतावता रसप्रतिपादनपदवाक्येन युक्तः । यतः समासे स प्रधानोप-
सर्जनभावो विशेषण विशेष्यांशयोरस्तं प्राप्नुयात् तद्विशेषगमेकमकं वो विधेय-
त्वेन विवक्षितम् । प्रस्तु, न भेदः कश्चिदिति । ननु विशेषणं व्यवच्छेदकं तच्च
व्यवच्छेद्यस्य गुणीभूतं विधेयत्वं च प्रधानत्वं वक्त हि विवक्षाप्रधाने भवति,
तदङ्गत्वेन विशेषणमाकांक्षावशात्परापतति तत्कथमेकत्र पदे तयोः समावेशः ?
एकत्र प्रदेशे एकस्य पदार्थस्य भावाभावयोरिव अन्योन्यविरोधे एकस्य स्थितां
वितराऽवस्थितिः कथमुपपद्यत इति । येनैकत्रोत्कर्षाधानद्वारा विधेये विशेषणे नैय-
त्येन समासनिषेधः । अन्यत्र स्वरूपपरे विशेषणे विकल्पः, नैष दोषः, विरोधस्यो-
भयवस्तुनिष्ठत्वात् सम्बन्धवत् । यथा एकत्र जलादी शीतत्वेन सहोष्णत्वं नाव-
तिष्ठते न च सत्यत्वमुभयोः संभवति । सत्ययोहि शीतत्वोष्णत्वयोविरोधो न तु
सत्यासत्ययोः । यथा विरहिणा परिकल्पितस्य शशिनि संतापस्य तदीयेन शीतत्वेन
विरोध:, यथा वा मृगतृष्णिका घर्मसंतापस्य कल्पितेन जलशीतत्वेन विरोधः;
एवमिहापीति । एकस्य विशेषणस्य सत्यत्वात् विधेयस्य तु विवक्षितत्वेन सत्य-
त्वाभावात् । इच्छा हि वस्तुन्यपि भवति, न हि सत्यं हस्तिन: कल्पना
.
.
.
[२५