This page has been fully proofread once and needs a second look.

जाता न तता, किंभूतया <error>जाह्वव्या</error><fix>जाह्नव्या</fix> अनुनयपरहरक्षिप्तया, अनुनयनं अनुनयः प्रसादनं
तस्मिन् परः स चासौ हरश्च तेन निक्षिप्तया, इदमुक्तं भवति पादयोः पतनेन
शिरश्चुम्बितया किं कुर्व्वत्या क्षालयन्त्या प्रक्षालयन्त्येति नूनं नूपुरेण ग्लपित-
शशिरुचा, ग्लपिता शशिन: रुक् चन्द्रकान्तिरधिकप्रबलेन येन स ग्लपितशशिरुक्,
नूपुरेण नूनं निश्चितं नो जाता या शोभते ज्योत्स्नया वा नखानां चन्द्रिकया वा
शोभा न जाता तां आदधाना इति सम्बन्धः, ग्लपितशशिरुचेति विशेषणं जाह्नव्या
ज्योत्स्नया च योजनीयमिति ॥३॥
 
मृत्योस्तुल्यं[^1] त्रिलोकीं ग्रसितुमतिरसा[न्]नि:सृताः किं नु जिह्वाः
किं वा कृष्णांह्रिपद्मद्युतिभिररुणिता विष्णुपद्याः पदव्यः ।
प्राप्ताः सन्ध्याः स्मरारे: स्वयमुत नुतिभिस्तिस्र इत्यूह्यमाना
देवैर्देवीत्रिशूलक्षतमहिषजुषो रक्तधारा जयन्ति ॥४॥
 
कुं०वृ०--जयन्ति सर्वोत्कर्षेण वर्तन्ते, कास्ताः, रक्तधारा: रक्तस्य धारा
रक्तधाराः, ऊर्ध्वं निःसृताः, "धारा कारा रुधिरस्य प्रवाहा" इत्यर्थः । गुरोर्द्रव्यस्य
अधोगामित्वमतिक्रम्य ऊर्ध्वगमनात् जगदानन्दहेतुत्वाच्च लोकोत्तरस्वरूपा जयन्ती-
त्युक्तम् । कतिसंख्याकाः, तिस्रः इति । किम्भूताः, देवीत्रिशूलाहतमहिषजुषः, देव्या:
त्रिशूलं देवीत्रिशूलं तेनाहतो देवीत्रिशूलाहतः, स चासौ महिषश्च देवीत्रिशूलाहत-
महिषः तं जुषन्तीति तास्तथा । किंभूताः, देवैरित्यूह्यमानाः, उत्प्रेक्षमाणाः । इतीति
किम्, 'नु' वितर्के, एता मृत्योः तिस्रो जिह्वा: । किंभूताः, अतिरसात् अतीवग्र-
सनाभिलाषात् तुल्यमेककालं त्रिलोको ग्रसितुं निर्गताः निःसृता: । त्रयाणां
लोकानां समाहारस्त्रिलोकी ताम् । ननु मृत्योरेकजिह्वत्वात् तिस्रो जिह्वा इति
कथं, उच्यते--पूर्ववच्छेषवत् सामान्यतो दृष्टं चेत्यनुमानस्य त्रैविध्यात्, वृष्टे-
र्मेघोन्नतिवत् । क्वचित्कार्यानुरूपं कारणमनुमीयते, यावत्कार्यमारब्धं तावतैव
कारणेन भवितव्यम् । अतस्त्रिलोकीं ग्रसितुं देवानां कामरूपत्वात् जिह्वात्रय-
कारणमौचितीमावहति । पुनः का इव, विष्णुपद्या: गंगायास्तिस्रः पदव्यः मार्गाः
किं वा इवार्थे । ननु विष्णुपद्या शुभ्रया कथमुपमीयन्ते रक्तधारा: ? अतो हेतुगर्भं
विशेषणमाह--'कृष्णांह्रिपद्मद्युतिभिररुणिताः, अंह्री पद्मे इव अंह्रिपद्मे तयो-
र्द्युतयस्ताभिः अरुणिताः अरुणीकृताः । तत्करोतीति णिच् । अथ अंह्री एव पद्मे
इति रूपकालङ्कारो वा । पुनः का इव, उत इति वितर्के, स्मरारेर्नुतिभिः स्वयं
 
 
[‍^1] तुर्यं, इति प्रतौ ।