This page has not been fully proofread.

२२ ।
 
महाकविचाण-विरचितं चण्डीशतकम्
 
[ पधाङ्क ४ व्याख्या
 
जाता न तता, किंभूतया जाह्वव्या अनुनयपरहरक्षिप्तया, अनुनअनुनयः प्रसादनं
तस्मिन् परः स चासौ हरश्च तेन निक्षिप्तया, इदमुक्त भवति पादयोः पतनेन
शिरश्चुम्बितया किं कुर्व्वत्या क्षालयन्त्या प्रक्षालयन्त्येति नूनं नूपुरेण ग्लपित-
शशिरुचा, ग्लपिता शशिन: रुक् चन्द्रकान्तिरधिकप्रबलेन येन स ग्लपितशशिरुक,
नूपुरेण नूनं निश्चितं नो जाता या शोभते ज्योत्स्नया वा नखानां चन्द्रिकया वा
शोभा न जाता तां प्रादधाना इति सम्बन्धः, ग्लपितशशिरुचेति विशेषणं जाह्नव्या
ज्योत्स्नया च योजनीयमिति ॥३॥
 
मृत्योस्तुल्यं त्रिलोकीं ग्रसितुम तिरसा[न्
]नि:सृताः किं नु जिह्वा ..
किं वा कृष्णांहिपद्मद्य तिभिररुणिता विष्णुपद्याः पद्व्यः ।
प्राप्ताः सन्ध्याः स्मरारे: स्वयमुत नुतिभिस्तिस्र इत्यूह्यमाना
 
देवैर्देवीत्रिशूलक्षतमहिषजुषो रक्तधारा जयन्ति ॥४॥
 
-
 
कुं० वृ० – जयन्ति सर्वोत्कर्षेण वर्तन्ते, कास्ताः, रक्तधारा: रक्तस्य धारा
रक्तधाराः, ऊर्ध्वं निःसृताः, "धारा कारा रुधिरस्य प्रवाहा" इत्यर्थः । गुरोर्द्रव्यस्य
अधोगामित्वमतिक्रम्य ऊर्ध्वगमनात् जगदानन्दहेतुत्वाच्च लोकोत्तरस्वरूपा जयन्ती-
त्युक्तम् । कतिसंख्याकाः, तिस्रः इति । किम्भूताः, देवी त्रिशूलाह्तमहिषजुषः, देव्या:
त्रिशूलं देवीत्रिशूलं तेनाहतो देवीत्रिशूलाहतः स चासौ महिषश्च देवी त्रिशूलाहत-
महिषः तं जुषन्तीति तास्तथा । किंभूताः, देवैरित्यूह्यमानाः, उत्प्रेक्षमाणाः । इतीति
किम्, 'तु' वितर्के, एतां मृत्योः तिस्रो जिह्वा: । किंभूताः, प्रतिरसात् प्रतीवग्र-
सनाभिलाषात् तुल्यमेककालं त्रिलोकों ग्रसितुं निर्गताः निःसृता: । त्रयाणां
लोकानां समाहारस्त्रिलोकी ताम् । ननु मृत्योरेकजित्वात् तिस्रो जिह्वा इति
कथं, उच्यते - पूर्ववच्छेषवत् सामान्यतो दृष्टं चेत्यनुमानस्य त्रैविध्यात्, वृष्टे-
मेंघोन्नतिवत् । क्चचित्कार्यानुरूपं कारणमनुमीयते, यावत्कार्यमारब्धं तावतैव
कारणेन भवितव्यम् । प्रतस्त्रिलोकीं ग्रसितुं देवानां कामरूपत्वात् जिह्वात्रय-
कारणमोचितीमावहति । पुनः का इव, विष्णुपद्या: गंगायास्तिस्रः पदव्यः मार्गाः-
कि वा इवार्थे । ननु विष्णुपद्या शुभ्रया कथमुपमीयन्ते रक्तधारा: ? प्रतो हेतुगर्भं
विशेषणमाह - 'कृष्णांहि पद्मद्युतिभिररुणिताः, पद्म इव पद्म तयो-
तयस्ताभिः अरुणिताः अरुणीकृताः । तत्करोतीति णिच् । अथ ही एव पद्म
इति रूपकालङ्कारो वा । पुनः का इव, उत इति वितर्के, स्मरारेर्नुतिभिः स्वयं
 
.
 
-
 
तुर्थं, इति प्रतो ।