This page has not been fully proofread.

२० ]
 
[ पद्याङ्क ३ व्याख्या
 
..
 
ऽऽदानं ग्रहणं, असुरसादानेन निःकार्यं यस्मिन् कर्मणि तद् यथा स्यात्, निर्गतः
कार्यात् निःकार्यः अनादेयः, क्रियाविशेषणं महिषविशेषणं वा । निर्गतः कार्यान्निः-
कार्य:, असुरसादानेन निःकार्य : असुरसादाननिः कार्यस्तं असुरसादान निःकार्यम् ।
विशेषणस्य विशेष्ये गुणाधानहेतुत्वात् क्षेपणक्रियायाः कश्चन गुणोऽसुरसादान-
निःकार्यरूपेण विशेषणेन नाधीयते ।
 
महाकविबाण - विरचितं चण्डीशतकम्
 
-
 
पूर्वत्रापरतोषो वा विषयव्याप्तिरेव वा । .
सर्वव्याख्या विकल्पानां द्वयमिष्टं प्रयोजनम् ॥
इति कृत्वा तत्र गुणाधानदर्शनात् । तद्विशेषणतापक्षस्तूपक्षेपः ।
 
ननु लोकोत्तंरवीर्यस्य महिषस्य पादेन क्षेपोऽनौचित्यमावहतीति कथमुक्त
पादेनैव क्षिपन्तीति, मैवं वादीः । यथा अलक्तकं तत्सारभूतं रसमादाय प्रवकर -
रूपा लाक्षा निरस्यते तथा सारभूतान् प्राणान् आदाय निर्यासंकल्पस्य निरसन-
मेवोचितमिति कवेरभिसन्धिः । प्राणानां सारभूततां च शतपथश्रुतो "इन्द्रियाणां
स्वस्वप्राधान्याभिमानसंवादे चक्षुराद्युत्क्रमणक्रमेण यदा प्राणा उदक्रामन् तदा
तैविना सर्वेषामवकरप्रायत्वात्" प्रत्यपादि ।
 
Y
 
-
 

 
कि कुर्वाणा भगवती, तां शोभामादघाना । क्व, अर्थाच्चरणयोः । 'तो'
इति सर्वनाम्नः प्रसिद्धपरामर्शः प्रकृतानुसन्धानं चेति व्यापारद्वैविध्यात्, कामित्य-
पेक्षायां प्रकृतमनुसंदधाति । या शोभा भगवत्याश्चर [86]णयोः जाह्नव्या न
जाता। कथम्भूतया जाह्नव्या, अनुनयपरहरक्षिप्तया अनुनयनमनुनयः, अनुनय
एव परं साध्यं यस्य स अनुनयरसचासौ हरश्च तेन क्षिप्ता तया । अत्र
हरक्षिप्तयेति "कर्तृ करणे कृता बहुलम्" इति समासो हरस्य सर्वोत्कृष्टत्वेन
कमपि प्रभावातिशयं दर्शयति, न गङ्गायाः । अथ चैवं व्याख्याने हरतीति हर
इति सर्वोऽपि यस्माद् विभेति सोऽपि अनुनयपर, इति । हरानुनयवशाद् यद्
भगवत्याः सौभाग्यातिशयकंथनं तद् हरस्य समासे निमोलितम् । हरेण क्षिप्तयेति
भवितव्यम् । हरस्य प्राधान्ये विवक्षिते क्षिप्तया सह समासे विधेयाइयो
विपर्यासे न्यग्भावः कृतः स चाऽयुक्तः । तथा चोक्तम्
 
:)
 
}
 
पदमेकमनेक वा यद्विधेयार्थमागतम् ।
 
न तत्समासमन्येन नं चाप्यन्योन्यमर्हति ॥१॥
 
-
 
तस्मादस्मादृशां महाकविप्रयोगा अविचारणीया इति । न पौरो भाग्यमा
सेव्यते । कि कुर्वत्या जाह्नव्या, क्षालयन्त्या अर्थात् देव्याश्चरणी, रक्त वस्तुनि
शुभ्रधोते काऽप्यभिख्या भवति, श्रयमाशयः, स्त्रीणां सौभाग्यस्य एतावत्येव परा-
काष्ठा यत् सपत्नीसन्निधौ भर्त्ता चरणयोः पतति । तत्रापि च सपत्नीमपि
 
to