2023-03-13 20:28:08 by manu_css
This page has been fully proofread once and needs a second look.
सं० व्या०--२. हुङ्कारे इति ॥ सा शिवा शिवपत्नी वो युष्माकं शिवं श्रेयः
करोतु विदधातु इत्येवं अज्ञानादज्ञानत एव यस्याः चरणोऽङ्घ्रिर्महिषस्यासून्
प्राणानहार्षीत् हतवान् । किंभूतश्चरणः स्कन्धन्यस्तः, कया विन्ध्याद्रिबुद्ध्या विन्ध्य-
श्चासौ अद्रिश्च [तद्बुद्ध्या] विन्ध्याद्रिबुद्ध्या, कोऽर्थः विन्ध्योऽयं पर्वतः अस्मि-
न्निवास: [कर्तव्य:] इति बुद्ध्या धिया स्कन्धे न्यस्तोऽङ्घ्रिरिति अत एव महिष-
स्याज्ञानम्; किं कुर्व्वति स्कन्धे निकषति निकर्षणं कुर्वति, कया विन्ध्याद्रिबुद्ध्या,
शा(श्या)मत्वात् देवीपादस्य तं प्रति महिषस्यापि विन्ध्याद्रिबुद्धिरुत्पन्नेति, यतश्च
निकषतीत्युक्तं अत एव निकर्षणेन वालनेन नूपुरस्य पादाभरणस्यापि सिं(शिं)-
जितैः शब्दितैः महिषस्य हुङ्कारे नुदति युद्धाय प्रेरयति जिते सतीत्युक्तम् । कीदृशे
हुङ्कारे न्यक्कृतोदन्वति न्यक्कृत उदन्वान् उदन्वद्घोषो येनेति विग्रहः, कि-
मुक्तं भवति न्यक्कृतसमुद्रघोषो युद्धाय नुदन्नपि महिषहुङ्कारो नूपुरशिञ्जितै-
र्जितत्वात् देव्या नवमद्रितश्च हेतौ महिषस्य अज्ञानमन्यथापीत्याह 'श्लिष्यच्छृङ्ग-
क्षतेऽपि क्षरदसृजि निजालक्तकभ्रान्तिभाजि' इति, श्लिष्यत् शृङ्गं तस्य क्षतं
व्रणं श्लिष्यच्छृङ्गक्षतं क्षरदसृक् [प्रसरत्] रुधिरं क्षरदसृक् निजश्चासावलक्त-
कश्च निजालक्तकः तस्य भ्रान्तिस्तां भजतीति निजालक्तकभ्रान्तिभाक् तस्मिन्
श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजालक्तकभ्रान्तिभाजि सति देव्या महिषस्या-
ज्ञानमपि एवमुपन्यस्तहेतुत्रयादज्ञानं संवृत्तं तत एव तस्याश्चरणो महिषस्यासून्
अहार्षीत् इति समुदायार्थः ॥२ ।
पूर्वस्मिन् श्लोके साधनान्तरनिरपेक्षेण चरणेनैव महिषस्य प्राणवियोजनं
वर्णितम् । सा स्तुतिर्भूतार्थवादो वेति विकल्प्य भूतार्थवाद एवायमिति द्रढयन्
उपश्लोकयति--
जाह्नव्या या न जाताऽनुनयपरहरक्षिप्तया[^१] क्षालयन्त्या
नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम् ।
तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा
पादेनैव क्षिपन्ती महिषमसुरसादाननिःकार्यमार्या ॥३॥
कुं० वृ०--आर्या भवानी जयति सर्वोत्कर्षेण वर्त्तते । किं कुर्वती, महिषं
पादेनैव क्षिपन्ती । किं कृत्वा, पीडयित्वा विमृद्य । कमिव, नवं अलक्तकमिव । कथं
यथा भवति, असुरसादाननिःकार्यं यथा भवति, असव एव रसोऽसुरसः तस्या-
[^१] का०-जातानवमपुरहरक्षिप्तया ।