This page has not been fully proofread.

पद्याङ्क ३ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसंमेतम्
 
[ १६
 
-
 
सं० व्या ० – २. हुङ्कारे इति ॥ सा शिवा शिवपत्नी वो युष्माकं शिवं श्रेयः
करोतु विदधातु इत्येवं अज्ञानादज्ञानत एवं यस्याः चरणोऽङ्घ्रिर्महिषस्यासून्
प्राणानहार्षीत् हतवान् । किंभूतश्चरणः स्कन्वन्यस्तः, कया विन्ध्याद्रिबुद्ध्या विन्ध्य
चासौद्रिश्च [तद्बुद्ध्यां] विन्ध्याद्रिबुद्ध्या, कोऽर्थः विन्ध्योऽयं पर्वतः अस्मि-
निवास: [कर्तव्य:] इति बुद्ध्या धिया स्कन्धे त्यस्तो घिरिति अत एवं महिष
स्याज्ञानम्; किं कुर्व्वति स्कन्धे निकषति निकर्षणं कुर्वति, कया विन्ध्याद्रिबुद्धघा,
शा(श्या)मत्वात् देवीपादस्य तं प्रति महिषस्यापि विन्ध्याद्रिबुद्धिरुत्पन्नेति, यतश्च
निकषतीत्युक्तं श्रतएव निकर्षणेन वालनेन नूपुरस्य पादाभरणस्यापि सिं (शि ) -
जितैः शब्दितैः महिषस्य हुङ्कारे नुदति युद्धाय प्रेरयति जिते सतीत्युक्तम् । कीदृशे
हुङ्कारे न्यक्कृतोदन्वति न्यक्कृत उदन्वान् उदन्वद्घोषो येनेति विग्रहः, कि-
मुक्तं भवति यकृत समुद्रघोषो युद्धाय नुदन्नपि महिषहुङ्कारो नूपुरशिञ्जितं
जितत्वात् देव्या नवमद्रितश्च हेतो महिषस्य अज्ञानमन्यथापीत्याह 'श्लिष्यच्छृङ्ग-
तेऽपि रदसृजि निजालक्तक भ्रान्तिभाजि' इति, श्लिष्यत् शृङ्गं तस्य तं
व्रणं श्लिष्यच्छ्रङ्गक्षतं क्षरदसृक् [प्रसरत् ] रुधिरं क्षरदसूक् निजश्चासावलक्त-
कश्च निजालक्तकः तस्य भ्रान्तिस्तां भजतीति निजालक्तक भ्रान्तिभाक् तस्मिन्
श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजालक्तक भ्रान्तिभाजि सति देव्या महिषस्या-
ज्ञानमपि एवमुपन्यस्त हेतुत्रयादज्ञानं संवृत्तं तत एव तस्याश्चरणो महिषस्यासून्
हर्षीत् इति समुदायार्थः ॥२ ।
 
.
 
पूर्वस्मिन् श्लोके साधनान्तरनिरपेक्षेण चरणेनैव महिषस्य प्राणवियोजनं
वर्णितम् । सा स्तुतिर्भू तार्थवादो वेति विकल्प्य भूतार्थवाद एवायमिति द्रढंयन्
उपश्लोकयति -
 
7
 
जाह नव्या या न जाताऽनुनयपरहरक्षिप्तया' क्षालयन्त्या
नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम् ।
तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा
पादेनैव क्षिपन्ती महिषमसुरसादाननिः कार्यमार्या ॥३॥
 
कुं० वृ० - आर्या भवानी जयति सर्वोत्कर्षेण वर्त्तते । कि कुर्वती, महिषं
 
.
 
1
 
पादेनैव क्षिपन्ती । किं कृत्वा, पीडयित्वा विमृद्य । कमिव, नवं लक्तकमिव । कथं
यथा भवति, असुरसादाननिःकार्यं यथा भवति, प्रसव एव रसोऽसुरसः तस्या-
१ का०-ज
 
- जातानवमपुरंहरक्षिप्तया ।