2023-03-13 20:27:53 by manu_css
This page has been fully proofread once and needs a second look.
लक्षावगमनशक्तिलक्षणारूढे: प्रयोजनाद् वा मुख्यार्थबाधे तदासन्नत्वे च यत्राऽपरो-
ऽर्थो लक्ष्यते सा लक्षणा' । मुख्यार्थबाधोऽनुपपत्तरनुपयोगाच्च । तत्र मुख्यार्था-
सन्नत्वं पञ्चधा । तदुक्तम्--
अभिधेयेन सम्बन्धात् सादृश्यात् समवायतः ।
वैपरीत्यात् क्रियायोगाल्लक्षणा पञ्चधा मता ॥
अत्र अभिधेयं मुख्यार्थः, तेन सह सम्बन्धो यथा न्यक्कृतोदन्वतीति अत्र
उदन्वच्छब्दाभिधेयस्य मेघस्य घोषरूपतानुपपत्तेर्मुख्यार्थबाधे योऽयं जन्यजनक-
भावात्मा सम्बन्धः तदाश्रयणेन उदन्वच्छब्दो घोषं लक्षयति । उदन्वदेकार्थसमवेत-
गाम्भीर्यमहत्त्वदुराकलनीयत्वादिप्रतिपादनं प्रयोजनं व्यङ्ग्यम् । न हि तद्
गाम्भीर्या(र्यं) उदन्वन्नादरत्यादिशब्दान्तरैः स्पष्टं शक्यते । पुनः किम्भूते हुङ्कारे,
महति आत एव समुद्रघोषययौचितं(स्यौचित्यम्), अन्यच्च, 'क्षरदसृजि श्लिष्यच्छृङ्ग-
क्षतेऽपि निजालक्तकभ्रान्तिभाजि' सति, 'अपि'-शब्दो हेत्वन्तरपरिग्रहार्थ: । क्षरत्
स्रवत् असृग् रुधिरं यस्मात्तत्तथा तस्मिन् । श्लिष्यत् घर्षत् शृङ्गं यत्र तत् श्लिष्य-
च्छृङ्गं श्लिष्यच्छृङ्गं च तत् क्षतञ्च व्रणं तत्तथा तस्मिन् । निजश्चासावलक्तकश्च
निजालक्तकः तस्य भ्रान्तिः तां भजति इति निजालक्तकभ्रान्तिभाक् तस्मिन्
निजालक्तकभ्रान्तिभाजि सति, इत्युक्तं भवति; प्रहारवशात् महिषस्कन्धे क्षरद्-
रक्तं क्षतं विद्यते, श्लिष्यच्छृङ्गवशात् तस्मिन् रक्ते परितो विलुलिते सति, देव्या
मच्चरणालक्तकोऽयं विन्ध्ये लग्न इति भ्रान्तिरासीत् न तु महिषबुद्धिः । रोषाकुलि-
तेन मनसा पुरोऽपि न दृष्टः ।
ननु कथं देव्या इयती भ्रान्तियत् समीपवर्त्यपि न दृष्ट: ? उच्यते, मनोऽनव-
स्थानात् सन्नर्थो न दृश्यते, अष्टधार्यानुपलब्धेः[8a] । तदुक्तम्--
अतिदूरात् सामीप्यादिन्द्रियघातात्मनोऽनवस्थानात् ।
<error>सौष्माद्</error><fix>सौक्ष्म्याद्</fix>व्यवधानादभिभवात् समानाभिहाराच्च ॥ इति,
अन्यच्च, किम्भूते स्कन्धे, निकषति सति, निकषो नाम सुवर्णपरीक्षाऽश्मा,
'निकषो हेमलेखे'ति प्रसिद्धेः । निकष इवाचरतीति निकषति, निकषतीति निक-
षन् तस्मिन्निकषति । किमुक्तं भवति, महिषस्य कृष्णे स्कन्धे रक्तिमवशान्निकषो-
पमा । न्यक्कृतोदन्वतीत्यत्रातिशयोक्तिरलङ्कारः । निजालक्तकेत्यत्र भ्रान्तिमान-
लङ्कारः । निकषतीत्यत्रेवादेर्लोपे समासे सति उपमा । न तु भ्रान्तिमानुत्प्रेक्षा ।
उपमया प्रादुर्भूतं तदाश्रयेण भ्रान्तिमाने च सचेतसां चमत्कृतिनिमित्तमित्येतयो-
रङ्गाङ्गिभावात् सङ्करः ॥ २ ॥