2023-02-24 17:17:28 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क २ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
[ १७
}
उद्यत्कोपकेतून्, कोपे केतुः स्वस्य चिह्नं कोपकेतुः, उद्यत् आविर्भवत् कोपकेतुर्येषामिति
विग्रहः, कथं प्रकृति अवयवान् प्रापयन्त्या इत्येवं पूर्वप्रकारेण तदुच्यते, मा भांक्षी-
विभ्रमं भ्ररित्यादि, अयं ना पुरुषो मायामहिषरूप: प्राण्येव, न च प्राणी, अत्र
पक्षे एव शब्द: स्वयोगस्यावस्थापकः, यथा शङ्खः पाण्डुर एवेति अथवाक्षेपे न तु
नायं प्राणी अन्यः कश्चिदपि तु; किमुक्त भवति, जन्तुमात्रोऽयमस्मत्पदतलघातसाध्यः
तरिक युष्मांभिरसमय एव वृथा कोपात् विकृतिरास्थीयते, स्वस्था भवन्तु, भवन्त्वत
इत्यभिप्रायेण देवी स्वभ्र प्रभृतीनवयवान् प्रत्येकमामन्त्र्य क्रियया युनक्ति, तद्यथा हे
भ्रूः ! मा भांक्षीविभ्रमं, विभ्रमं भङ्ग मा कार्षीस्त्वम् विभ्रमो हि भरतशास्त्रे
विंशतिविधः लीलाभेद उत्कटः । अधर ! अधरोष्ठ ! विधुरता केयं, किमिदं वैधुर्यं
प्रस्फुरणं, आस्य ! मुख ! रागत्वं अस्य क्षिप, पाणे ! हस्त ! कलहश्रद्धया कलहस्ये -
छया कि त्रिशूलं प्रायुधविशेष कलयसि इति ॥१॥
पूर्वस्मिन् पद्ये महिषस्य माहात्म्यातिशयं वर्णयित्वा साम्प्रतं[7b]भगवत्याः
प्रभावप्राचुर्यं प्रकटयन् द्वितीयं श्लोकमवतारयति-
हुङ्कारे न्यक्कृतोदन्त्रति महति जिते शिञ्जितैर्नृपुरस्य,
श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजा लक्तकभ्रान्तिभाजि ।
स्कन्धे विन्ध्याद्रिबुद्धया निकषति महिषस्याऽऽहितोऽसूनहार्षी-
दज्ञानादेव यस्याश्चरण इति शिवं सा शिवा' वः करोतु ॥ २ ॥
2.
कुं०व० - सा शिवा भवानी वः युष्माकं शिवं करोतु कल्याणं विदधातु । सां
का, यस्याश्चरण एव महिषस्या सून् प्राणान् प्रहार्षीत् जहार एवकारोऽत्र
साधनान्तरव्यावृत्यर्थः । मह्यां शेते इति महिषः, पुषोदरादित्वात् साधुः । कथं इत
हेतुभि: प्रज्ञानात् स्कंधे श्रहित: अर्थान्महिषस्य, कया, विन्ध्याद्रिबुद्धया
विन्ध्यश्चासावद्रिश्च विन्ध्याद्रिः तस्य बुद्धिस्तया । श्रयं महिषस्कन्धो न विन्ध्याद्रिः
अनेन स्कन्धस्य महत्त्वं देव्याश्च अनायासो द्योत्यते। इतीति किम्, महिषेण यो
हुङ्कारो व्यधायि तस्मिन् नूपुरस्य शिञ्जितै जिते सति । कथम्भूते हुङ्कारे,
'न्यक्कृतोदन्वति' न्यक् नीचैः कृत उदन्वान् समुद्रो येन । "उदन्वान् उदधौ च "
इति, उदन्भावो मतो निपात्यते, उपचारवृत्त्या उदन्वत् घोषोऽपि तच्छब्देनो-
च्यते । अत्र शब्दस्य मुख्यलाक्षणिकव्यञ्जकत्वेन त्रैविध्ये लक्ष्याश्रितत्वाल्लक्षणा-
व्यापारवत्त्वाच्च लाक्षणिकत्वम् । 'लक्ष्यलक्षकस्य लाक्षणिकस्य लक्षनिष्ठो व्यापारो.
१. शिवं, इति प्रतो ।
:
-
:
1
M
•
S