2023-02-24 17:17:28 by ambuda-bot
This page has not been fully proofread.
महाकविवाण-विरचितं चण्डीशतकम्
[ पद्याङ्क १ व्याख्या
1
गुरुभिः प्रपञ्चितम् । अनुपयुक्तत्वान्नेह विपञ्च्यते । इयं शक्तिरन्यैवेति चेतना
तदसिद्धं संज्ञाप्रमाणत्वात् । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्, योग-
प्रमाणे च तदभावे दर्शनं स्यात् इति च इतस्तत्रभवतः पाणिनेरप्ययमभिप्राय: ।
इत्यभिप्रेत्य श्रुतिरपि वंभणीति " चत्वारः शृङ्गास्त्रयोऽस्य पादा द्वे शीर्षे सप्त-
हस्ताः सो अस्य त्रिधा बद्धो वृषभो रोरवीति महादेवो मर्त्यान् प्राविवेश ।" इति
श्रस्य मन्त्रस्य अविद्यमानवचनात् इति सूत्रात् निरर्थकत्वमाशंक्य "अभिधानार्थ-
वाद" इति सूत्रे असतोऽप्यर्थस्याभिचाने योग्यस्य प्रामाण्यमुररीकृत्य प्रामाण्य
मवादि । यथा एवंविधं शाक्त महः देवोत्पत्त्या न श्राविवेश । 'उ' निपातः
पूरणार्थ: । देवांश्च मनुष्यांश्च प्रविवेश । अनुकम्पार्हत्वेन तान् श्राविवेश । दैत्यान्
व्यापादयितुं तन्मध्ये श्राविरभूदिति यावत् । तदानीं युद्धावसरसामग्र धनुरूपं,
यथा चत्वार उपायाः शृङ्गाणीव चत्वार्यादिपु सर्वत्र व्यत्यय मिच्छति शास्त्रकृदेषा-
मिति लिङ्गादेर्व्यत्ययः । उदयास्त्रयः पादाः श्रात्मवृद्धिः परज्यानि द्वे शीर्षे
स्वाम्यादिप्रकृतयो हस्ता[:] सः प्रभुमन्त्रोत्साहशक्तिभिस्त्रिधा बद्धो जायत्वात् ।
धर्मेण भातोति वृषभ: । रोति शब्दकर्मा दैत्यान् व्यापाद्यतां द्रागिति शब्दं कुर्वाणं,
इत्यादिश्रुतिरपि शक्तिसद्भावे प्रमाणम् । "विद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते"
इत्यत्रापि "विद्यैव सा भगवती परमा हि देवी" ति मार्कण्डेयवाक्यात् । विद्यारूपा
भगवत्येव श्रुत्याऽभिधीयते । किं बहुना श्रुतिस्मृतीतिहास्य (स ) पुराणलोकेष्वपि
शक्तरेव प्रभावातिशयः श्रूयते । अतस्तां प्रति संदिहाना 'नंष स्थाणोरंपराधो
यदनमन्धो न पश्यति' पुरुषापराधः स भवतीति न्यायादुपेक्षणीया एवं सर्व-
प्रमाणक समधिगम्या भगवती, वः युष्माकं पापं मुष्यादिति वाक्यार्थः सम्पन्न
इति ॥ १ ॥
१६ ]
um
स्वबुद्धितः स्वल्पमिहाद्य पद्ये किञ्चिन्मया व्याकरणं व्यधायि ।
नान्तोऽस्ति सूक्तार्थविचारणीयाः संक्षेपतोऽतोऽभिदधे पदार्थान् ॥ १ ॥
प्रज्ञातविद्वत्कृता संक्षिप्तव्याख्या
१. ॐ नमश्चण्डिकायै ॥ मा भांक्षीरिति ॥ त्र मुण्यादिति क्रियापादेन
सर्वजनानां पापहारः कथ्यते, मुण्यात् मुष्णातु हरतु वो युष्माकं अंहः पापं, कोऽसौ
श्रृङ घ्रिश्चरणः, कि कुर्व्वन् संहरन्, कान् मरुदसुहृदसून्, किंभूतश्चरण: न्यस्तः
निक्षिप्तः, क्व मूनि शिरसि, क्या देव्या भगवत्या, कि कुर्वंत्या प्रापयन्त्या
नयन्त्या इव, इव-शव्द उत्प्रेक्षायां, कांस्कान् प्रकृति पूर्वस्वरूपां शरीरावयवान्