2023-03-13 20:25:17 by manu_css
This page has been fully proofread once and needs a second look.
"यथा निरन्तरायत्वात् परां विश्रान्तिमाश्रिता ।
प्रतिभानुभवस्मृत्याद्यवबोधविलक्षणा ॥
ब्रह्मसंविद्विसदृशी नानारत्यादिसङ्गमात् ।
सुखरूपारवसंवेद्या संविदास्वादनाभिधो रसः ॥"
अथवा, स्थायी रसस्तद्गोचराऽभावात् । स च मित्रामित्राद्याश्रयतां विनापि
अवस्थादेशकालादिभेदसंभेदवर्जितः केवलं रत्यादिस्थायिरूपो विभावानुभावव्य-
भिचारिसङ्गात् निःपद्यत' इति पूर्वसूरयो न्यरूरुपन् । तथा चाभाणि भरतेन--
दध्यादिव्यञ्जनैश्चिञ्चाहरिद्रादिभिरौषधैः ।
मधुरादिरसोपेतैः यद्वद्द्रव्यैर्गुडादिभिः ॥
युक्तैः पाकविशेषेण खाण्डवाख्योऽपरो रसः ।
उत्पाद्यते विभावाद्यैः प्रयोगेण तथा रसः ॥
इति, अप्रस्तुतत्वान्नेह प्रतन्यते ।
ननु देवतासद्भावे प्रमाणाभावात्तदाश्रया आशीर्न संजाघट्टि । लक्षणप्रमाणाभ्यां
वस्तुसिद्धेस्तदभावेन निराश्रयत्वात् नदीमां वाचो युक्तिविचक्षणपरीक्षा-
क्षमामीक्षामहे । कुतः ? अभावेनैव तत्सद्भावविभावनात् । आदोऽपि कथमिति
चेत् ? 'भावप्रतियोगित्वादभावस्य' इति वचनं जागर्त्ति । यतो भावस्यैवाऽभाव
इति । तथाह--स ज्ञातोऽज्ञातो वा निषिध्यते नाऽऽद्यः, तद्ग्राहिणैव प्रमाणेन
बाधात् । द्वितीयश्चार्पितप्रसङ्ग(6b) बाधितो नोत्थातुं प्रभवति । घटादिरप्यजातो
न प्रतिषेधमर्हति । तथाहि--
लब्धरूपे क्वचित् किञ्चित् त्वा(ता)दृगेव निषिध्यते ।
विधानमन्तरेणातो न निषेधस्य सम्भवः ॥ इति,
तल्लक्षणपक्षाच्च स्वीय-स्वीयमतावलम्बनेन प्रावादुकानां (वावदूकानां)
जाग्रते । स्वरूपलक्षणञ्च "सत्यं ज्ञानमनन्तमानन्दं ब्रह्मे”ति । तटस्थलक्षणं च
"जन्माद्यस्य यत" इत्यादि । प्रमाणं च "सदैव सौम्येदमग्र आसीद्" इत्यादि
अनुमानानि च 'कार्यायोजनधृत्यादेः पादात् प्रयतः श्रुतेः । वाक्यात् सांख्या-
sविशेषाच्च साध्यो विश्वविदव्यय ॥" इत्यादीनि, अयं घटः, एतज्जनकानित्येतर-
ज्ञानजन्य: कार्यत्वात् कुम्भवदति च ।
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णयैः । इत्यादि,
षड्विधतात्पर्यदर्शनादागमादपि तत्सिद्धिः । इत्याह--नास्तिक्यनिराकरिष्णुरात्म-