This page has been fully proofread once and needs a second look.

१४ ]
 
महाकवि विरचितं चण्डीशतकम्
 
"यथा निरन्तरायत्वात् परां विश्रान्तिमाश्रिता ।

प्रतिभानुभवस्मृत्याद्यवबोधविलक्षणा ॥

ब्रह्म संविद्विसदृशी नानारत्यादिसङ्गमात् ।

सुखरूपारवसंवेद्या संविदास्वादनाभिधो रसः ॥ "
 
प्र

 
थवा, स्थायी रसस्तद्गोचराऽभावात् । स च मित्रामित्राद्याश्रयतां विनापि

अवस्थादेशकालादिभेदसंभेदवर्जितः केवलं रत्यादिस्थायिरूपो विभावानुभावव्य-

भिचारिसङ्गात् निःपद्यत' इति पूर्वसूरयो न्यरूरुपन् । तथा चाभाणि भरतेन-
-
 
दध्यादिव्यञ्जनं नैश्चिञ्चाहरिद्रादिभिरौषधंः ।
धैः ।
मधुरादिरसोपेतः यद्वतैः यद्वद्द्रव्यैर्गु डादिभिः ॥
 
। पद्याङ्क २ व्याख्या
 

युक्तैः पाकविशेषेण खाण्डवाख्योऽपरो रसः ।

उत्पाद्यते विभावाद्यैः प्रयोगेण तथा रसः ॥
 

 
इति, अप्रस्तुतत्वान्नेह प्रतन्यते ।
 

 
ननु देवतासद्भावे प्रमाणाभावात्तदाश्रया प्राशीर्न संजाघट्टि । लक्षणप्रमाणाभ्यां

वस्तुसिद्धेस्तदभावेन निराश्रयत्वात् नदीमां वाचो युक्तिविचक्षणपरीक्षा-

क्षमामीक्षामहे । कुतः ? प्रभावेनैव तत्सद्भावविभावनात् । प्रदोऽपि कथमिति

चेत् ? 'भावप्रतियोगित्वादभावस्य' इति वचनं जागर्त्ति । यतो भावस्यैवाऽभाव

इति । तथाहि - ह--स ज्ञातोऽज्ञातो वा निषिध्यते नाऽऽद्यः, तद्ग्राहिणैव प्रमाणेन

बाधात् । द्वितीयश्चार्पितप्रसङ्ग (6b) बाधितो नोत्थातुं प्रभवति । घटादिरप्यजातो

न प्रतिषेधमर्हति । तथाहि -
 
.
 
--
 
लब्धरूपे क्वचित् किञ्चित् त्वा (ता) दूंदृगेव निषिध्यते ।

विधानमन्तरेणातो न निषेधस्य सम्भवः ॥ इति,
 

 
तल्लक्षणपक्षाच्च स्वीय -स्वीयमतावलम्बनेन प्रावादुकानां ( वावदूकानां)

जाग्रते । स्वरूपलक्षणञ्च "सत्यं ज्ञानमनन्तमानन्दं ब्रह्मेति । तटस्थलक्षणं च

"जन्माद्यस्य यत" इत्यादि । प्रमाणं च "सदैव सौम्येदमग्र आसीद्" इत्यादि

अनुमानानि च 'कार्यायोजनधृत्यादेः पादात् प्रयतः श्रुतेः । वाक्यात् सांख्या-

sविशेषाच्च साध्यो विश्वविदव्यय ॥" इत्यादीनिंनि, अयं घटः, एतज्जनका नित्येतर-

ज्ञानजन्य: कार्यत्वात् कुम्भवदति च ।
 
"
 

 
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
 

अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णयैः । इत्यादि,
 

 
षड्विधतात्पर्यदर्शनादागमादपि तत्सिद्धिः । इत्याह - --नास्तिक्यनिराकरिष्णुरात्म-