This page has been fully proofread once and needs a second look.

धूमः पुंसां भव्यवस्तुनाशाय चायं प्रयतते इति । अत्र वृत्ते "विज्ञेया स्रग्धरा-
ऽसौ मरभनययया वाहवाहैर्यतिश्चेत्" इति स्रग्धराछन्दः । यतिर्विच्छेद इति
गणाश्च ।
 
'आदिमध्यावसानेषु यरता यान्ति लाघवम् ।
भजसा गौरवं यान्ति मनौ गौरवलाघवे ॥'
 
इति प्रापयन्त्येवेत्रोत्प्रेक्षालङ्कारः । तदुक्तम्--
 
'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा ।
अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां विदुर्बुधाः ॥ '
 
'मुष्याद् वोंऽहः' इति आशी: । आशीर्नामाऽभिलषिते वस्तुनि आशंसनम्, यथेति
प्रापयन्त्येवेति, इवेनेत्यादिना समासे इव-शब्द-योगे समासगा वा उपमा । अत्रा-
शीरुत्प्रेक्षे परस्परनिरपेक्षे संसृष्टिं प्रयोजयतः । यथा--
 
'सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।' इति,
 
अथानुप्रासोत्प्रेक्षाशीर्वादानां शब्दार्थालङ्काराणां संसृष्टिर्वा तेषामेकस्मिन्वाक्ये
समवेतत्वात् सङ्करोऽपि । तथा चानुप्रासोऽत्राशीर्विशिष्टं वाक्यं अनुगृह्णाति ।
उत्प्रेक्षा चाशिषं, आशिषोऽङ्गीभावात्, उत्प्रेक्षा तदङ्गित्वेन प्रवृत्तेति । तथा
चोक्तम्--
 
'अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः ।'
 
अथवाऽत्र तु 'मा भांक्षी'रिति धैर्यस्य प्रकृतिं प्रापयन्त्येवेति शान्तिः । अथ पुन-
र्मायात्वयमित्यावेगधैर्ययोः सन्धिः । अथ नानारूपाण्यपि कुर्वाणमसुरं दृष्ट्वा
धृतेरुदयः । अथ धृत्यसूयाश्रमाशङ्कौत्सुक्यानां शबलतेति कृत्वा वाक्यार्थस्य प्राधा-
न्यात् रसस्य तु गुणीभूतव्यङ्गत्वेन रसवदूर्जस्विदलङ्कारता । अनु चेङ्गितैरवयव-
प्रकृतेति प्रापणाद्यैर्हेननस्य लक्षणत्वात् सूक्ष्मोऽलङ्कारः । अनु च, महिपहननलक्षण-
मिष्टमर्थं साक्षादनुक्त्वैव प्रकारान्तरानुसन्धानेन पर्यायोक्तमलङ्कारः । अनु च, महिप-
हननोपकरणे प्रस्तुते भ्रुवादीन् सम्बन्ध्योक्तिरप्रस्तुतेति अप्रस्तुतप्रशंसाऽपि । एवं
चाऽवयवेषु प्रस्तुतेषु स्वावयवेषु किमुच्यते, अपि तु तद्व्यपदेशात् सज्जीभवंत्विति,
देवानुपदिशतीति समासोक्तिः, अथाऽवयवानामप्रस्तुतानां मुखेन केषांचित्तदुपदेश-
योग्यानां प्रतिपत्तेरप्रस्तुतप्रशंसेति सन्देहः । अत्र च बहूनामलङ्काराणां विरुद्ध-
स्वभावानां एकस्मिन् वाक्ये युगपदवस्थानासम्भवात् । एकतरस्य च परिग्रहे
साधकप्रमाणाभावात् । इतरेषां च पराकरणे बाधकाभावाच्च अनिश्चयात्मकः
सड़्कर आपनीपद्यते । तदुकम्--