2023-02-24 17:17:27 by ambuda-bot
This page has not been fully proofread.
१०
महाकविवाण-विरचितं चण्डीशतकम्
'आक्षेपं च समाधानं कृत्वा वादान्तराणि तु
वितथीकृत्य या व्याख्या टीकां तामाहुरुत्तमाम् ॥'
इति टीकालक्षणत्वात् पूर्वपाठशोबन चिन्ताऽनुचितेति न वाच्यम् । तथा
चोक्त व्याख्यानकृद्भिस्तल्लक्षणम्-
'पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना ।
आक्षेप समाधानं षोढा व्याख्यानेलक्षणम् ॥' इति,
श्रथ मन्त्रोद्धार प्रकारेण किञ्चिदर्थान्तरं यथा, तत्र मन्त्रार्णप्रकाशनाय
क्लिष्टेऽपि पदच्छेदे मयि कृपापरैः सद्भिनद्वगः कर्त्तव्यः ।
[ पद्याङ्क १ व्याख्या
प्रायेणामृतमव्यक्त व्यक्तविषमितस्ततः ।
क्षुण्णाक्षुण्णत्वतः स्तोत्र-पन्थानी सुगदुर्गमो ॥
.
:
--
यथा 'उ' इति सम्बोधने, देवी भुवनेश्वरी वः युप्माकं, अंहः पापं मुण्यात् । कि
विशिष्टा देवी, 'हि' हकार रेफ-इकारवाच्या सदाशिव माधव ब्रह्मरूपा ।
"सदाशिवो हकारः स्यात् इकारी माधवः स्मृतः । रेफो रजो गुणो ब्रह्म" इत्यने-
कार्थध्वनिमञ्जर्याम् । अथ हकाररेफेकारैः सोमसूर्याग्निवर्णरूपात्मिका हकारा-
दिषु सोमादिक्रमाभावात् कलनातीतत्वं द्योतितम् । पुनः किम्भूता, मूर्द्धनि वर्त-
माना सतो, 'अनि' जीवे इति जीवस्थाने हृदये अस्ता - प्रारोपिता। श्रनिति
प्राणितीत्यन् क्विबन्तः सर्गः । व्यवहितो वा प्रास्तेति ध्यानार्थं हृदये
प्रानीता । पुनः किविशिष्टा, इति अवयवान् मन्त्रवीजाणवयवान् क्षीविभ्रमं
प्रकृति प्रापयन्ती, एवेत्यवधारणे । "प्रकृतिः स्वभावे योनौ च" इत्यनेकार्थे ।
वीनां पक्षिणां भ्रमो यस्मिन्निति विभ्रमः । श्राकाशे हकारः । क्षीभिरुपलक्षितो
विभ्रमः क्षीविभ्रमः तम् । "क्षकारो व्यापि ब्रह्म" इत्यागमनिघण्टौ । अं
ब्रह्मेति च मातृकानिघण्टौ घं एतावता अनुस्वार : सम्पन्न । 'ई' इति शान्ति-
कला, ईकारः । 'र्' इति रेफः । एवं हकाररेफेकारानुस्वारैः कृत्वा 'ह्रीं' इति
बीजं जातम् । तदुक्त– 'घनवर्त्मचूर्ण गतिशान्तिबिन्दुभिः कथितः । परप्रकृति-
वाचको मनुरिति । अस्य च मनोः सर्वस्य मन्त्रजातस्य सर्वस्य च विश्वस्यादिका -
रणत्वात् प्रकृतित्वम् । अथ क्षीविभ्रममिति व्युत्क्रमस्थानात् अवयवान् प्रकृति -
स्वभावं प्रापयन्ती, क्रमेण योजयन्ती । किविशिष्टं विभ्रमम्, 'माभाम्' मकारेण
युक्त 'या' [इति] 'मा' तेन भातीति स तथा । एतावता पूर्वं आं इति पाशबीजं
जातम् । पुनः किविशिष्टा, के व्यञ्ज[5a]ने 'रविधुरता अरश्च विधुरश्च
तेषां भावस्तत्ता । 'घर: कारः, विधुः बिन्दुः, २ : रेफ:, के इति: ककारे
'
-
-
"