This page has been fully proofread once and needs a second look.

महाकविचाण-विरचितं चण्डीशतकम् [ पद्याङ्क १ व्याख्या
 

 
प्रमाणमिति चेत्, न, तारतरादिभेदभिन्नस्य गकारस्य प्रत्यक्षेण प्रतीयमा-

नत्वात् तस्य चान्यथानुपपत्तेः प्रत्यभिज्ञानस्य च ज्वालादिवदन्यथाप्युपपत्तेः ।

तीव्रत्वादिधर्माणामेवोत्पादो न गकारस्येति चेत्, न, युगपदनेकपुरुषोच्चारणे

तारतरत्वादिविरुद्धधर्मानुपपत्तिप्रसङ्गात् ।
 

 
थैषां व्यञ्जकधर्मत्वं तदप्यसङ्गतं, शब्दधर्मत्वेन प्रतिभासनात् । 'तिक्तो.

गुड : डः' इति प्रतीतिवदेषा भ्रान्तिरिति चेत्, न, बाकाभावात् । गत्वतीव्रत्वयोः

परापरभावानुपपत्तिर्बाधिक धकमित्यपि न वाच्यम्, सुखत्वतीव्रत्वयोरिव परापरभाव-

नियमानभ्युपगमात् । तथैषां व्यञ्जकवायुधर्मत्वे कर्णाभ्यर्णकृतहस्तस्य हस्तेना-

प्युपलम्भप्रसङ्गः, तदेवं स्थितमेतदुच्चरितप्रध्वंसिनः शब्दा इति ।
 
+
 

 
ननु किकिं पदानि प्रत्येकमेकैकमर्थं प्रतिपादयन्ति सन्ति वा स्वार्थे प्रमाणं कि
किं
वा परस्परान्वितं स्वार्थं बोधयन्ति । अत्र केचिदाचक्षते व्युत्पत्त्यनुसारेण पदा-

नामर्थप्रतिपादकत्वम् । व्युत्पत्तिस्तु 'गामानय' इत्यादिषु क्रियान्वितस्वार्थप्रतिपाद
-
कतायां च क्रियायां न स्वरूपमात्र इति परस्परान्वितमेव स्वार्थं पदान्यभिदध-

तीति । अत्रोच्यते - -यदि घटपदेनाऽऽनयनान्वितश्चार्थोऽभिधीयते तदा आनय

इति पदं व्यर्थं स्यात् । ( 32 a) आनयेति पदेनाऽऽनयनार्थे निहिते सति घटपदेना-

ऽऽनयनान्वितस्वार्थोऽभिधीयत इति न व्यर्थमाऩयेति पदमिति चेत्, तर्हि नय
आनय
इति पदं घटान्वितस्वार्थमभिदधानं अनन्विताभिधानं प्रसक्तम् । न चानयेति

पदेनापि पूर्वपदाभिहितार्थान्वितः स्वार्थोऽभिधीयत इति वाच्यं, इतरेतराश्रय-

प्रसङ्गात् । श्रथ पदानि प्रथमं स्वार्थमात्रं स्मारयित्वा पश्चादित रेतरान्वितं

स्वार्थमभिदधतीति नेतरेतराश्रयः । तदुक्तम्-
.
 

 
पदं जातं श्रुतं सर्वं स्मारितार्थविधायकम् ।

न्यायसम्पादितव्यक्तिः पश्चाद्वाक्यार्थबोधकम् ॥
 

 
तदपि वार्त्तस्मरणस्याऽनुभवानुभवानुसारित्वेनाऽन्वितार्थस्मरणदर्शनात् ।

कण्ठ्यादेः शब्दस्याऽवयव्यतिरेकाभ्यां कम्बुग्रीवाद्याकारं एवार्थे प्रयोगनियमात्,

न क्रियाकारणादिषु तेषां प्रत्येकं व्यभिचारात् । तेनाध्यमव्यभिचरितं साहचर्
यं
पृथुवुबुध्नोदराकारमेवार्थं प्रतिपादयति, न क्रियाकरणलक्षणमिति । एवं तर्हि स्
यस्य
शब्दस्य येनार्थेनाsव्यभिचारिसाहचर्यमुपलब्धं तस्यैव तदभिधायिकत्वमिति ।

अनन्विताभिधानपक्षेऽपि समानं न च स्मरणमनुमानवत्साहचर्यनियममपेक्षते ।

साहचर्य नियमविरहिणामपि दण्डादीनां पुरुषास्मरणे कदाचिरस्मरणात् । तस्मा-

न्
नियमेन पृथुवुबुध्नोदराकारमेवार्थं स्मारयन् घटशब्दस्तद्विषयमेव वाचकत्वमालम्बते,

ये तु पदैरभिहिता: पदार्थ [[ I] एव वाक्यार्थ प्रतिपादयन्तीति संगिरन्ते तेषाम-